SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir साहसैकशिरोमणे ? जन्मान्तरं लब्ध्वाऽपि तब प्रत्युपक मशक्कोस्मि, उदध्युदकमानं सिकतागणनाश्च कोऽपि क्वचिद्विदध्यात्तथाऽपि निरवधीस्तव गुणान्विनिर्मातुं कः प्रभुः १ मतिमन् ? इमां कन्यां परिणीय मां कृतार्थय, पुरा नैमित्तिकवचनेन त्वमेवास्याः पतिर्मया निश्चितोऽसि, नरेन्द्र ? मदीयामिमामभ्यर्थनां परिहत्तुं नाईसि, इत्थं तद्वचनं श्रुत्वा वीरसेनरसेशस्तुष्णी तस्थौ, अप्रतिषिद्धमनुमतमिति विज्ञाय तेन गणकप्रवरान्समाहूय तूर्णं लग्नदिनं निर्धारयाञ्चक्रे, ततो निजं धन्यमन्यः पद्मशेखरो निजविभवानुसारेण वीरसेनाय स्वसुतां चन्द्रावतीं प्रदाय विवाहमहोत्सवं निवर्तयामास. अनुरूपवरवधूयोगं मत्वा समस्ता शस्तभावा पौरजनता जज्ञे, योग्यं योगं निरीक्षमाणो धीमान को न रज्यति ? यतः-विधिरचितमुदारं योग्ययोगं निरीक्ष्य, सकलकलितसारं सर्वदानन्ददक्षम् । ___ अगणितगुणधारं धर्मकर्मैकलक्ष्यं, नयनविषयसारं को न रज्येत दक्षः ॥१॥ किन्त्वेका वीरपत्नी वीरमती तत्सपत्नीभावभग्नभावाऽभाव्यत, स्नेहिसज्जनमानसमानसन्त्वदभ्रसुधासारेण क्षणतः चणप्रदं जज्ञे, प्रतिगृहाट्ट मङ्गलमालाः प्रावर्त्तन्त, अथैवं पञ्चधा विषयसुखमनुभवतो रथाङ्गनाम्नोरिख प्रतिपदं प्रवृद्धभावबन्धनयोश्चन्द्रावतीवीरसेनयोदिनान्यानन्दमयानि क्षणसमानि व्यतिचक्रमुः। इति श्रीचन्द्रराजचरित्रे प्रथमोल्लासे द्वितीयः सर्गः ॥२॥ ततोऽस्यैकभाजनं वीरमती तयोस्तादृक्नेहग्रन्थि विभाव्य विभावतो रोषारुणलोचनयुगला तदपकारपरायणा नितरां वासरान्निर्गमयामास. निर्मानमानसा चन्द्रावती तु तो सततं पूज्यबुद्ध्योपचरति, सदैव पर्याप्ततोषपोषा सा विशेषतो विषादापवा For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy