________________
॥चंद्रराजचरित्रम् ॥
प्रथमोलासे द्वितीयः सर्गः॥
जातकौतुकाः समस्तसामन्तास्तं प्रशशंसुः, ततो दानशौण्डः क्षत्रकुलावतंसो धैर्यकुलभवनं स्थिरतरवाक्प्रचारः समारूढवा- जिरत्नो नृपतिः कुमारिकासामन्तादिपरिवृतो महता महेन निजपुरीं प्रविवेश, प्रतिपदं प्रमोदमादधाननियाजैः पौरजनैरभिनन्धमानो नृपतिर्निजप्रासादमलश्चकार. अथ वीरसेननरेशो वाकुशलं निजदूतं संप्रेष्य पद्मशेखरनराधिपं व्यजिज्ञपदिति, भवदङ्गजा सप्रमोदात्र विराजते, तां मिलितुं त्वया सत्त्वरं समागन्तव्यम्, त्वदेकथ्याना चन्द्रावती त्वदर्शनेऽतीवोत्कण्ठायते, तस्मात्परिहृतसकलव्यापारेण त्वया सद्यो दर्शनदानेन विषादहासो विधातव्यः, किं बहुनोक्तेन ? अदृष्टनिशाकरा चकोरी कियत्कालं नन्दति ? अथ विदितपुत्रीवृत्तान्तः पद्मपुरीशः सपरिवारस्तत्क्षणोत्पन्नरोमाञ्चराजिलब्धनिधिमक इव हृष्टहृदयोऽ- | जनि, कालात्ययमसहमानः सोऽपि निजाङ्गलग्नाभरणैर्मुकुटवर्ज तं दूतं सत्कृत्यामापुरी जग्मिवान्. अथ विज्ञाततदागमनवा - | तिमुदितो वीरसेनो महीयसा महेन तं स्वागतीचक्रे, परस्परविहितदृढालिङ्गानौ तौ निःसीमप्रमोदरसमन्वभूताम्, ततो वीरसेनमुखाचन्द्रावतीवृत्तान्तं निशम्य पद्मशेखरः सकम्पं प्राह, आः ? दैवगतिविचित्रा, केयं सुकुमाराङ्गी १ क च दुईदयः स जटिलः १ क पुनः साहसशिरोमणेस्तत्रभवतस्तत्र प्रयाणम् ? इदं दुर्घटमपि दैवेन सुघटितं कृतं तन्महतां कृपैव. उक्तश्च-सन्तप्तायसि संस्थितस्य पयसो नामाऽपि न ज्ञायते, मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते ।
स्वाती सागरशुक्तिसम्पुटगतं तन्मौक्तिकं जायते, प्रायेणाधममध्यमोत्तमगतिः संवासतो जायते ॥१॥ राजनीदृशं समाचरता त्वया मे किं नोपकृतम् । इत्थं श्लाघमानो निजतनयामुत्सङ्गवर्तिनीं विधाय रोमाञ्चदन्तुरितगात्रो हृद्यमान्तं प्रमोदभरमुद्रमन्निव दन्तज्योत्स्नामिर्धवलयन्दिन्देशान्विहिताञ्जलिर्नरेशः सविनयं तं जगाद, परत्राणगृहीतवृत्त !
॥७॥
For PvAnd Personale Only