SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Achh agan Gyaan चंद्रराज चरित्रम् ।। | चतुर्थोबासेतृतीयः सर्गः॥ ॥१३६॥ अथतस्मिन्नगरेलक्ष्मणसिंहस्यगृहान्तिकेराजसअनिकश्चिारकर्मरतोराजनियोगीनिवसति, तत्समीपवर्मनाप्रतिदिनंचन्द्रावती मुहुर्मुहुरसामयिकंगमनागमनंकरोति, सुन्दराङ्गीतांविलोक्यसदुर्गपाल कामविवशोजनि । प्रतिसमयं चन्द्रावतींनिजरागिणींविज्ञायहास्यवचनैस्तामुपहसन्कामकेलिं द्योतयतिस्म, साऽपितंनिजासक्तंचिन्तयित्वाहावभावंद्योतयन्तीकामचेष्टांप्रकटीचकार । अथैकदापतिविरहान्मन्मथपीडिताचन्द्रावतीकटाक्षबाणैर्विद्धतंराजपुरुषकामविह्वलं"रात्रौममसझनित्वयासमागन्तव्यमिति"सङ्केतयिस्वानिजनिकेतनेसमागत्यतमेवध्यायन्तीचिन्तातुराऽस्थात् । सकामुकोऽपिसङ्केतसमयंप्रतीक्षमाणोव्याकुलेन्द्रिय कुच्छ्रेणदिनंव्यनेपीत् । अथैतस्मिन्वासरेशूरसिंहास्वमित्रस्यवचनानुसारेणतद्गृहकार्यप्रसाधयितुसमागतः,कार्यबाहुल्यात्सूर्यास्तकालःसञ्जातः,शरसिंहासाधितकार्य:सुहृद्भार्येसमनुज्ञाप्यनिजनगरंगन्तुंसमुत्थितस्तदाचन्द्रावतीनिजेष्ट कार्यसमीहमानाकिमपिनोवाच, सरलाशया सुलक्षणातुससंभ्रमंतंप्राह-किमिदंगृहंभवदीयंनास्ति ? अद्यखलुसायंकाल संजातःमार्गोऽपिविषमः, नद्यामद्यप्रभूतंजलंसमायातम् , निशिसरित्प्रवाहोदुरुत्तरणीयः, अतःसुखेनाऽस्यारजन्यामत्रतिष्ठतु भवान्, प्रभातेगन्तव्यंनिजपत्तने, इतिभृशमाग्रहेणतंप्रतिनिवृत्यसुलक्षणारक्षतिस्म, ततोमधुरांरसवतींनिष्पाद्यतंभोजयित्वासानिजागणेपर्यप्रगुणीकृत्यप्रस्वापयामास । सोऽपितस्याप्रतिपक्ष्यारञ्जितःसुखेनतत्रसुप्तः । इतश्चन्द्रावतीकामुकागमनंप्रतीक्षमाणानिद्रामलभमानागृहद्वारिचिन्तार्ताऽस्थात् । तदानीराजपुरुषःसङ्केतसमयविज्ञायस्वच्छाम्बरधारीसुरभिकुसुमतैलादिनापरिकर्मितकेशपाशःसालङ्कतसर्वाऽवयवःशनैर्निजस्थानानिर्गत्यलक्ष्मणसिंहस्यगृहान्तिकमाजगाम, झम्पकादहिःस्थित्वायावत्सविलोकयतितावचदङ्गणमध्यभागेपर्यसुप्तकश्चित्पुमांसंज्ञात्वाचिन्तयितुंलग्नः । कोऽयंपुरुषः? कस्मादत्रनिर्भयइवप्रसुप्तः ? मादृशोऽयंजारपुरुषोनास्ति, अन्यथेदृर्शनिद्रासुखंकथमनुभवेत् ? भविष्यतिकश्चिदस्या: ॥१३६॥ For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy