________________
॥ चंद्रराजचरित्रम् ॥ ॥१२६॥
चतुर्थोलासे प्रथमः सर्गः।
त्वां जानामि, परन्तद्वत्त्वया क्रूरमनसा न भाव्यम् । इतिप्रेमलायाःस्नेहरसप्लुतानि मर्मच्छिदानि च वचनानि श्रुत्वा भृशमुत्क- *ण्ठितोऽपि स्वयंपक्षित्वात्तदुत्तरंदातुनाशकत् । यद्यपि दम्पत्योर्योगोदेवेन घटितस्तथापि कर्मान्तरायसत्त्व तत्फलमागिनौ तौ
नाभूताम् । प्रेमला स्वयंनिजावासस्थिता विहङ्गमेन साकमीदृग्वाक्यान्युदीरयन्ती निजोद्गारान्निष्कासयति तावच्छिवमाला तत्र समागत्य कुक्कुटश्च निजोत्सङ्गे लात्वा क्रीडितुं लग्ना। ततः सा प्रेमार्द्रहृदया सुगन्धितद्रव्यैस्तं सिञ्चतिस्म, तदने मिष्टान्नादिकं । ढौकयित्वा मधुरस्वरेण सा गीतान्यगायत, ततोरञ्जितताम्रचूडा सा राजसुतामवदत्
ताम्रचूडमिमं पूज्ये !, यावन्मासचतुष्टयम् । सेवस्व प्रेमभावेन, स्वान्तिकस्थं वरानने ? ॥१॥ अहमप्यागमिष्यामि, स्नेहपाशनियन्त्रिता । प्रयत्नेन त्वया रक्षा, विधेयाऽस्य पतत्रिणः ॥ २॥ चतुर्मासी स्थितोऽयं ते, वान्छितं पूरयेद्यदि । तदाऽस्माकं महानन्दः, सखि ? सत्यं ब्रवीम्यहम् ॥ ३ ॥ इत्थंमार्मिकवचनानि भणित्वा शिवमाला स्वस्थानमगमत् । प्रेमला तु तद्रहस्यमजानन्ती कुक्कुटेन समरममाणा समयंयापयति, सततंतमेव पश्यन्ती सा तत्सेवांविदधाति, तं च निरीक्षमाणा गम्भीरानिःश्वासान्मुञ्चति, सातत्येन नयनयोरश्रुधारांवहमाना सा शोकंप्रकटयति । इत्थवर्तमानायांतस्यां वर्षार्तुप्रादुर्भावादम्बरमेघमण्डलैमेंदुरंजातं, परितोऽचिरयुतिप्रभाभिःप्रादुरभृयत, ब्रह्माण्डभेदिनोगर्जारवाःसमन्तादभूयन्त, जीमूताश्च क्षणादर्षितुलनास्तेन सकलंजगच्छान्तिमयमजनिष्ट, तथाऽपि प्रेमलाया हृद्विदाहोनोपशशाम । यतः-वर्षाकाले भवति विपुला शान्ति | रत्राऽखिलाना-कामातानां पुनरनुदिनं जायते हद्विदाहः । वैचित्र्यं तत्प्रशमजनकाद्वैपरीत्यं हि जातं, रम्या भावाः सकलसुखदा | नैव दृष्टाः श्रुता वा । १ ॥ विरहवेदनया भृशंपीड्यमाना सा निजदुःखकुक्कुटनिवेदयति, शिवमालावचनश्च स्मरन्ती सा
॥१२६॥
For
And Persone Oy