SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra www.kobabirth.org Achar शुद्धिमपि स न करोति, मां परिणीय कुष्ठिने दवेतो निर्गतोऽनेन किं तस्य गौरवंगण्यते । मदीयंजन्म तेन विफलीकृतम् । इदं शिक्षणं कुतस्तेन लब्धम् । यदि गृहस्थधर्ममुद्रोहुमशक्तस्तर्हि परिणे तुमत्र स कथमायातः कृत्वा च पाणिग्रहं तत्कालमेव मय्यभावस्तस्यकुतो जातः ? विहगोत्तम ? त्वन्नृपतिसमान कोप्यन्योनिघृणचेता मया न दृष्टः । य:परिणीय पत्रद्वाराऽपि मां न मरति, स्वेन प्रारब्धंकार्यमुत्तमजना विधुरेऽपि काले न त्यजन्ति । यतः-प्रारभ्यते न खलु विनमयेन नीचैः, प्रारभ्य | विनविहता विरमन्ति मध्याः। विनैः पुनः पुनरपि प्रतिहन्यमानाः, प्रारब्धमुत्तमजना न परित्यजन्ति ॥१॥ यद् मद्भ; विहितंतच्छत्रुरपि न समाचरति, दूरस्थासोऽत्र कथमायाति, तत्र गन्तुमहमप्यबला कथंसमर्था भवामि ! स्वयमेव त्वविचारयेदृशीमवस्थामनुभवन्त्या मे बासराः कथं प्रयान्ति ! पक्षिनस्मिञ्जगति परहितनिरतोनिष्कारणबन्धुः स्तादृशो न कोऽपि दृश्यते, यस्तत्र गत्वा मद्भर्तारंवियोध्य मदन्तिकसमानयेत् । षोडशहायन्यांव्यतीतायामपि यन्मनसि भार्यास्नेहोन स्फुरति, तचित्तवज्रादपि कठोरंमन्ये, यदर्थमञ्जनकोऽपि मां मुधा कदर्थितवान् , अधुना कंशरणंव्रजामि, कस्याग्रे दुःखनिवेदयामि, जगत्यस्मिन् स्नेहंविधातारःमुलभाः पुनस्तत्पालका दुर्लमाः । यतः-आरंभगुर्वी क्षयिणी क्रमेण, लघ्वी पुरा वृद्धि मती च पश्चात् । दिनस्य पूर्वार्द्धपरा भिन्ना, छायेत्र मैत्री खलसज्जनानाम् ॥१।। तत्रापि या निःस्नेहेन सा ग्रीतिर्विधीयते a सा तु केवलंदुःखदायिन्येव जायते । यतः-भर्तुर्वियोगः स्वजनापवादः, ऋणस्य शेष कृपणस्य सेवा । दारिद्यकाले प्रियदर्शनञ्च, विनामिनैतानि दहन्ति नित्यम् ॥ १॥ ताम्रचूड ! मद्भर्तृगृहवासिनं भवन्तंवीक्ष्य विह्वलीभूतहृदया दुःखातिभारंनिवेद्य क्षीणदुःखा जातासि, मद्भर्तृसमान For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy