________________
ShriMahavir JanArchanaKendra
Acharya:shkailassagarsunGyanmandir
पूर्णताऽजनि ॥ २ ॥ राजेन्दो ? सर्वमान्यस्य, दुर्लभं तव दर्शनम् । अद्यैव जातमस्माकं, जीवितं सफलं प्रभो ? ॥ ३ ॥ सर्वत्र भ्रमता दृष्टा, मयकामापुरी वरा । तादृशी वैभवाढ्या च, द्वितीया विमलापुरी ।। ४ ।
एवंनगरशोभावयन्तोनटा नाट्यसाधनानि सजीचक्रुः। प्रथमपवित्रीकृतभूप्रदेशे पुष्पपुजविरचय्य तदुपरि कुक्कुटपञ्जरं | स्थापयित्वा जयध्वनिचक्रुः । ततस्त आयामतरमेकंवंशंभूमौ निखन्य परितःकीलकावलम्बितरज्जुपाशस्तंनिबध्य दृढीचक्रुः। अथ स्फारशृङ्गारा शिवमाला पुरुषवेषा वंशमूलमासाद्य परितोदृष्टिंप्रसारयन्ती तस्थौ, अद्भुतरूपलावण्यांतानिरीक्ष्य सभ्यजनाः परमंविस्मयंप्रापुः । नृपतिश्च व्यचिन्तयत् , ईदग्रूपवैभवसंपन्ना सूर्यप्रभेव तेजस्विनी देवकन्या किंवा मानवकन्या ? भूतलस्पर्शिनी देवकन्या तुन संभवति, ततःकौतुकिना नरेन्द्रेण नाट्यंनिरीक्षितप्रेमला समाहूता, साऽपि तत्र समागत्य निजपितुरुत्सङ्गे संनिविष्टा स्थिरदृष्ट्या तद् व्यलोकयत् । राज्ञा भणितम्-वत्से ? नटा इमे सर्वे, आभापुर्याः समागताः । नाट्यं विलोक्यतामेषां दक्षाणां स्वस्थ. चेतसा ॥१॥ नाट्यकलाकोविदेयंनटसुता नभस्तलस्पर्शिनि वंशे चटित्वाऽनेकधा निजकलादर्शयिष्यति, एवंवर्णयति पार्थिवे पौरजनेषु पश्यत्सु च शिवमाला वंशाग्रेसमारुह्य विविधान्यासनानि विधाय जनमनांसि क्षणाद्रञ्जयामास । ततोऽसकृदंशोपरि नृत्यंकृत्वा प्रतिदवरकमदृष्टपूर्वाःकला प्रदर्शयन्ती सा नीचैरवतीर्य नृपसन्निधौ गत्वा प्रणाममकरोत् । पौरजनसमेतःपार्थिवःप्रसन्नोऽभूत्
प्रमुदितेन नृपेण तस्यैप्रभूतंधनंप्रदत्तं नागरिकैरपि वस्त्रायलंकाराणांवृष्टिविहिता, तस्मिन्क्षणे पञ्जरस्थस्ताम्रचूड प्रेमलाविलोक्य पूर्वपरिणीतातामुपलक्ष्य चेतसि भूरिमोदमावभार । अचिन्तयच्च, अहो ? षोडशवर्षान्तेऽद्य मे भार्यावियोगोविनष्टः, अगतिका:कूपाःपरस्परं न मिलन्ति, मानवास्तु दूरस्थिता अपि सगतिका मिलन्त्येव, पुनःस चिन्तयति,-पक्षित्वं प्राप्तवानस्मि, निरुपायः
For Private And Personlige Only