________________
॥चंद्रराजचरित्रम् ॥ ॥१२॥
तृतीयोवासे दशमः सर्गः॥
रञ्जयामासुरक्षुब्धं, भूपतिं ससभं नटाः॥१॥ तुष्टमानसोनृपतिरभाषिष्ट, भवतामद्यमार्गश्रमोजातस्तस्मादद्य विश्रान्तिर्लभ्यताम् । नाटकन्तु श्वस्तने दिने सुखेन विधीयताम् ।
इति श्रीचन्द्रराजचरित्रे तृतीयोल्लासे नवमःसर्गः ॥९॥ ततोनटा अपि स्वानुकूलंनृपशासनंप्रमाणयन्तोनिजस्थानमगच्छन् । तेषामन्तिके कुकवाकुंनिरीक्ष्य पौरास्तान्पोचुः, यथाऽयंचरणायुधो न विरौति तथा यत्नतोयुष्माभिःसंरक्षणीयः । कदाचिदसौ रटिष्यति तदा मन्त्रिणोजामाता तच्छब्दश्रुत्वा देशान्तरंगमिष्यति तदानीं तनिमित्तभाजोयूयमेव भविष्यथ, इदंवृत्तान्तं निशम्य कुक्कुटोऽपि मौनतयाऽत्र स्थातव्यमितिस्वचेतसि निश्चिकाय । नागरिका अपि निवृतिमापन्नाःस्वस्वस्थानंजग्मुः। क्रमेण तमस्विन्यांव्यतीतायांप्राभातिकसमयं निवेदयन्विस्मृतनैशिकवृत्तान्तःकुकुटः स्वभावतोमधुरशब्दानुचारयामास । तच्छब्दान् भृण्वानापौरा अपि विनिद्रा बभूवुः, देवमन्दिरेषु झल्लरिका नदन्ति स्म, जगच्चक्षुर्दिनकरोऽप्युदयाचल शिखरंसमारूढः। अथ श्रुतकृकवाकुस्वनोलीलाधरोनिजाश्वमारुह्य प्रयाणमकरोत् । साश्रुनयना लीलावती तं निवर्तयितुंभृशमाग्रहं व्यधात् । रुदन्ती तामनादृत्य श्रेष्ठमुहूर्तमन्यमानः स प्रयाणभङ्गं नाकरोत् । पतिवियोगेन व्यथितहृदया लीलावती कुकुटस्वनंहालाहलोपममेने, तत्पतिश्च तं पीयूषवदमन्यत । भर्तृवियोगमसहमाना सा मूञ्छिता भूमौ निपपात, शीतलोपचाररूपचरिता सा क्रमेण लब्धचैतन्याऽन्यजनान्रोदयन्ती भृशंविललाप..
रे दैव ? किं दुष्ट ? तवापराद्धं, दुःखं ददक्कि न दधासि लज्जाम् । दीनामनाथामवला मुधा त्वं, कदर्थितुं नैव विभेषि किञ्चित् ।। १ ।। निजसखीमुद्दिश्य सा वदति-हारो नारापितः कण्ठे, मया विश्लेषभीरुणा। इदानीमन्तरे जाताः, पर्वताः सरितो
॥१२१॥
For
And Persone Oy