SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir सर्वतः । स चेच्छ्रोष्यति तच्छब्द, स्थास्यति वारितोऽपि नो ॥२॥ सचिवाज्ञामुरीकृत्य, यथादेशं नियोगिनः । समस्तं नगरं चक्रु-हीनकुक्कुटसन्तति ॥३॥ इयं तेषां गूढरचना लीलाधरेण नाज्ञायि । यतः-सुप्रयुक्तस्य दम्भस्य, ब्रह्माऽप्यन्तं न गच्छति । कौलिको विष्णुरूपेण, राजकन्यां निषेवते ॥ १॥ निशाप्रान्ते गृहीतसाधनः सजीभूय दत्तकर्णोलीलाधरकुक्कुटस्वरंश्रोतुमतिष्ठत्-न तच्छन्दः श्रुतस्तेन, प्रयाणमभिकासत्ता । कुक्कुटेन विना शब्दः, कथं स्याच्छ्रतिगोचरः ॥१॥ स्वमनसि सोऽपि व्यचिन्तयत्-कुक्कुटो न कथं ब्रूते, विघ्नं कर्त्ता प्रयाण के प्रयाणन्तु विधातव्य-मवश्यमद्य वासरे॥१॥ प्रयाणं स विनिश्चित्य, सत्वरं गन्तुमुत्थितः । शुभाऽशुभ मुहूर्त नो, गणयन्ति मदोद्धताः ॥२॥ कुक्कुटस्वनमाकर्ण्य, प्रयाणं शुभदायकम् । दैवज्ञवचनं मान्य-मिति मन्त्री रुरोध तम् ॥ ३ ॥ लीलाधरोऽपि शुभमुहूर्त्तविना प्रयाणमन्दफलदायकमिति विज्ञाय प्रयाणतोव्यरमत् - लीलावती स्वाभिगुणान्स्मरन्ती, तदन्तिकत्वं न जहात्यधीरा । स्वकार्यदक्षा हि निजार्थसिद्धिं, प्रकल्पयन्त्युनतकर्मजन्याम् ॥ १ ॥ मन्त्रीश्वरस्तं विनिवृत्य मासा-नस्थापयत् पद् निजसअनि बनी । तथापि लीलाधरचित्तमासी-द्विदेशसंपत्तिसमीहयोत्सुकम् ॥२॥ दैवज्ञैश्च समादिष्टे, कुक्कुटस्य स्वनेऽश्रुते । प्रयाणमपि नाकार्षी-दात्मलाममपेक्ष्य सः ॥ ३ ॥ परिभ्रमत्तन्नटमण्डलं तदा, समाययौ तत्र पुरे सचन्द्रकम् । सदुन्दुभिध्वानसुवेणुनिःस्वनै-दिग्मण्डलं गर्जयदुनतिप्रियम् ॥ ४ ॥ निजगौरवंसमीहमानाःसबै नटा नृपान्तिकंगत्वा निजोतारकमार्गयन्तिस्म, नृपेणाऽपि मन्त्रिगृहान्तिके तेषानिवासस्थानप्रदत्तम् । नटैस्तत्रोत्तारकोविहितः । तेषांसैनिकास्तु नगराबहिःसरस्तटे पटमण्डपान्विधाय निवासंचक्रुः । विहितभोजना नटा धृताभिनवनेपथ्या गृहीतकुकुटराजनिदेशा दिनान्ते नृपान्तिकंजग्मुः-गीतगानैः कलाभिश्च, ललितैललिताम्बराः। For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy