SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ AcharyanKadamagarsunaamana | ऽपि हरेणापि, ब्रह्मणा त्रिदशैरपि । ललाटलिखिता रेखा, न शक्या परिमार्जितुम् ॥५॥ कर्मणा बाध्यतेबुद्धि-नबुझ्या कर्म बाध्यते । सुबुद्धिरपि यद्रामो-हैमं हरिणमन्वगात् ॥ ६॥ तथा च-आरोहतु गिरिशिखरं, तरतु समुद्रं प्रयातु पातालम् । विधिलिखिताक्षरमालं, फलति कपालं न भूपालः ॥ ७॥ पुरुषः पौरुषं ताव-द्यावदेवं तु सन्मुखम् । विपरीतगते दैवे, पुरुषो न च पौरुषम् ॥ ८ ॥ इतिदैवबुद्धिःस विदेशयियासुर्विषयमानसत्रुटितखट्वामेका सनाथीकृत्य गृहकोणे प्रसुप्तः। | किश्चित् कार्यान्तरंविनिर्माय तदानींसमागतस्तजनकोगृहकोणे खवायापतितपुत्ररुष्ट चेतसंविज्ञाय पृच्छतिस, वत्स ? केन | मुमर्पणा त्वरीषितः ? येनेदृशीमवस्थामनुभवसि, लीलाधरस्वाह-तात ! त्वत्कृपया काचि,-न्यूनता नास्ति मेऽधुना । किन्तु देशान्तरं गन्तु-मिच्छामि द्रव्यहेतवे ॥१॥ कृपां विधाय सद्यो मे, तदाज्ञां दातुमर्हसि । विदेशगमनं पुंसां, शस्यते नयकोविदः ॥२॥ यतः-देशाटनं पण्डितमित्रता च, वाराङ्गना राजसभाप्रवेशः । अनेकशास्त्राणि विलोकितानि, चातुर्यमूलानि भवन्ति पश्च ॥३॥ तजनकोऽवादीत-अधुना बालकोऽसित्वं, परिणीतोऽसि साम्प्रतम् । लक्ष्मीरप्यस्ति बहुला, किंन्यूनमस्ति मद्गृहे | ॥४॥ देशान्तरस्य वार्ताऽपि, नातः कार्या त्वयाऽधुना । गृहे स्थित्वा सदा भोग्या-वाञ्छिता भोगसम्पदः ॥५॥ ततः स भितुकप्रोक्तं, मर्माविद्वचनं स्मरन् । जनकं ज्ञापयामास, विदेशगमनोद्यमम् ॥ ६ ॥ श्रेष्ठी जगाद-मुग्ध ?, भिक्षुकोक्तिं नि राम्य च । कदाग्रहो न योग्योऽयं, सर्वसंपद्युतस्य ते ॥ ७ ॥ सुलभे वैभवे कोऽन्यो-निद्रां विक्रीय बुद्धिमान् । उजागरं समादाय, दुःखमापद्यते भृशम् ॥८॥ एवं श्रेष्ठिप्रमुखैयुक्तिप्रयुक्तिभिर्बोधितोऽपि स निजाग्रहनामुञ्चत् । ततस्तजनकेन बह्वाग्रहेण स भोजितः। विहितभोजनः For Private And Persone n
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy