SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra **-**--**0X***++++ *** www.kobarth.org चिप १ ॥ ७ ॥ योऽपकाररतो नित्यं, परकार्यविघातकः । तन्मुखं रजसा पूर्ण, जायतामञ्जनोपमम् ||८|| स्वामिन् । सकृन्मयि दृष्टिपातं कुरुष्व भाविनी भवद्विरहानलज्वाला मां भृशं व्यथयति भवता निजदर्शनवृष्टिधाराभिरहं निर्वापयितव्या, ईर्ष्यालुना दुर्दैवेनावयोः साहचर्य न विसोढम् । ईदृशदुःखश्रेणींसहमानांमामपि धिगस्तु-वज्रेण निर्मितं नूनं विधिना हृदयं मम । अन्यथा भिद्यते किंन, सङ्कटेऽपीदृशे दहा ? ११ ।। १ ।। दैव ? तुभ्यं नमस्कृत्य, प्रार्थयामि मुहुर्मुहुः । ईदृशं सङ्कटं काऽपि, मा देहि मद्रिपोरपि || २ || स्वामिंस्त्वत्स्नेह वाक्यानि स्फुरन्ति हृदये मम । शन्यवत्तानि पीडां मे, करिष्यन्ति दिवानिशम् ॥३॥ स्वास्त्विद्दर्शनाकाङ्क्षा, पूरणीया पुनस्त्वया । अन्यथा मे गतिर्नास्ति, जीवामि ध्यानतस्तव ॥ ४ ॥ एतदेव हि दुःखं मे, भवन्तं प्रतिवासरम् । नर्त्तयिष्यन्ति सर्वत्र, नटाः स्वोदरपूर्त्तये ॥ ५ ॥ तदुःखञ्च सहिष्येदं ततोऽप्यतिभयप्रदम् । श्वभूदुःखं महादुःखं, जागर्त्ति मम मूर्धनि ॥ ६ ॥ स्वामिन्नत्र स्थितस्याऽपि, तब सौख्यं न विद्यते । ससर्पे हि गृहे वासः, प्राणसंशयदायकः ॥७॥ “ शङ्कुला मुकन्यायोऽत्र संप्राप्तः " विधिनिषेधशून्या जातास्मीति निगद्य विरतायां तस्यां तदर्थवेदिना कुक्कुटेन चरणनखैरचराणि विलिख्य भूमौ विज्ञापितम् - तन्वङ्गि ? चिन्ता मम नैव कार्या, समागमो नौ पुनरेव भावी । लब्धस्वरूपस्तव पूरयिष्ये, नटप्रसङ्गेन मनोरथं द्राग् ॥ १ ॥ जीवनहं त्वत्स्मरणानुपङ्गी, शश्वत्तत्रैवोपकृतिं स्मरिष्ये । दूरस्थितोऽप्यस्मि तत्रैव चित्ते, न त्रुय्यति स्नेहगुणो हि मुग्धे १ || २ || अस्मान्नटगणाद्भावि, मनुष्यत्वं मम ध्रुवम् । त्वयैतत्सर्वथा ज्ञेयमुद्यमोऽयं ततोऽखिलः || ३ || अतस्त्वया न मे कार्या, चिन्ता चित्तसमुद्भवा । धर्मध्यानरता शश्वद्भव त्वं सुखदा प्रिये १ ॥ ४ ॥ इतिकुक्कुटलिखिताक्षराणि वाचयित्वा किञ्चित्स्वस्वमनाः सा मन्त्रिणे पञ्जरं समर्थ भयतिस्म - वीरमत्यै प्रदेहि त्वं, पञ्जरं For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir -*-*
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy