________________
ShriMahavir JanArchanaKendra
Achar
तेन लोके किमप्यनवाप्यमस्ति-मातस्त्वत्कृपयाऽस्माकं, वित्तवाञ्छा न विद्यते । यदि स्यात्तहिं लोकेऽस्मि-विद्यन्ते बहवो नृपाः॥१॥ इतिदृढाग्रहपरंशिवकुमारं विदित्वा वीरमती प्राह-रे मुग्ध ! किमिदं याचितम् ?-संप्राप्य मादृशी दात्री, किमु तुच्छं हि याचसे । गजाश्वरत्नसंपत्ति, विमुच्य त्वं विमोहितः॥१॥ पचिदानेन मे कीर्ति-श्चिरस्थायिनी नश्यति । पचिदानं श्रुतं? कापि, त्वयाऽपि देशचारिणा ॥२॥ किश्च-मया वध्वाः प्रमोदाय, रचितोऽयं प्रयत्नतः। तुभ्यं ददामि चेन्नून, विषादार्ता भवेद्धि सा ॥३॥ अतस्तमन्तरा मनोवाञ्छितमन्यद्याचस्व, तदाशयज्ञः सोऽवादीत्-राज्ञि ? विहगदानेन, त्वकीर्तिः स्फूर्तिमाप्स्यति । प्रार्थितस्य प्रदानेन, दातृत्वं श्लाध्यते बुधैः॥१॥ मातर्जानाम्यहं सर्वे, प्राणेभ्योऽप्यतिवल्लभः। तवाऽयं विहगो रम्य-स्तथाऽपि मम दीयताम् ॥ २॥ इमं ददासि नो मह्यं, किमन्यचं प्रदास्यसि । परीक्षणं जनानां हि, प्रतिस्थानं प्रजायते ॥३॥ तथाविधंतस्याग्रहविज्ञाय तया विविधयुक्तिभिर्विघोधितोऽपि स निजाग्रह न शिथिलीचकार, तदोपायान्तरमजानन्ती सा तद्वचनमङ्गीकृत्य कुक्कुटंसमानेतुं निजमन्त्रिणं गुणावल्याः सन्निधौ प्राहिणोत्--
इति श्रीचन्द्रराजचरित्रे तृतीयोल्लासे सप्तमः सर्गः ॥ ७ ॥ ततो मन्त्री तत्र गत्वा गुणावली विज्ञापयतिस्म-गुणखाने ? नमस्तुभ्यं, कुक्कुटदेहि सांप्रतम् । वीरमत्याज्ञया राज्ञि ?, संगतोऽहं त्वदन्तिके॥१॥ नटानामयं चरणायुधःप्रदातव्यस्तस्मात्सद्यस्त्वमिममे देहि, अत्रस्थितोऽयं सुखी न भविष्यति, नटान्तिके तस्य काऽपि क्षति स्ति.तत्रस्थितःस मवान् भविष्यति. नटपुत्री शिवमाला खजीवितमिव तं रतिष्यति. चिन्ता त्वया कापि न विधेया,
For Private And Personlige Only