________________
तृतीयोलासेसप्तमः सर्गः ॥
॥ चंद्रराज-17 पुनर्वीरमतींप्रमोदयितुंनाटकंप्रारब्धम् , गृहीतजनकादेशा शिवमालाऽपि वंशाग्रमारुह्य पञ्जरश्चाभिलक्ष्य नृत्यकलाप्रारभत । | चरित्रम् ॥ तदानीमियपक्षिभाषांजानातीति विज्ञाय कुक्कुटोनिजभाषया शिवमालांप्रत्यबोधयत् --नकि ? स्वकलादक्षा, विद्यसे सत्यवा
दिनी । पक्षिमापाचणाऽतस्ते, मद्वृत्तान्तं ब्रवीम्यहम् ॥ १॥ त्वत्कलारञ्जिता राज्ञी, मार्गयेष्टमिति त्वकाम् । वक्ष्यत्यहं तदा ॥११२॥
याच्य-स्त्वयाऽनन्यधिया बुधे ? ॥२॥ तदने किमप्यन्यचया न मार्गणीयलोभान्धितधिया, मद्वचनमवश्यंपालनीयं, सत्यमहब्रवीमि । मृत्युमुखादयंदीनविहगोरक्षणीयस्त्वया, याञ्जीवत्वदुपकारं न विसरिष्यामि, त्वदीयांधनाशामहंपूरयिष्यामि, मद्भुत्तान्तमामूलंसर्वपश्चात्त्वारहसिनिवेदयिष्यामि, मदुक्तंवचनंत्या साधनीयमेव । इत्थंतदीयांमन्दोक्तिमाकर्ण्य शिवमालाऽपि ज्ञातसारा नाटकान्ते वंशादुत्तीर्य निजजनकरहसि नीत्वा चरणायुधगदितबार्ता निवेदयामास-हेतात? मद्वचनतश्चरणायुधोऽयं, याच्यस्त्वया सकलदीव्यनिधानभूनः ॥ सिद्धिर्भविष्यति परोपकृतिप्रभावा-दस्मन्मनोरथचयस्य कुतोऽन्यवाञ्छा ? ॥१॥ शिवकुमारोऽपि निजपुत्रीवचनंप्रमाणीकृत्य वीरमतीमभ्येत्य तद्यशोगानंकुर्वन् दानजिघृक्षया तत्रैव तस्थिवान् । सुधासोदरंवर्ण्यमानंनिजयशःपीत्वा सा भृशं तुतोष, ततस्तंनटॅनिजान्तिके समाहूय तया स भणितः
नटाधीश ? वरं सद्यो-याचस्व हृदयप्रियम् । तुष्टास्मि त्वत्कलां वीक्ष्य, वीक्षणीयां महीभुजाम् ॥ १ ॥ कलास्तु बहवो दृष्टा नटानां देशचारिणाम् । इयन्त्वपूर्वा लोकानां, विद्यते चित्तहारिणी ॥२॥ लब्धावसरः शिवकुमारोऽवादीत् । यदि मातः प्रसन्नाऽसि, कुक्कुटोऽयं समर्प्यताम् । अनेनैव प्रसन्नोऽस्मि, नान्यदिच्छामि साम्प्रतम् ॥१। मत्पुत्री शिक्षते राज्ञि, कुक्कुटस्य गतिं सदा । अतः प्रदाय तं भव्यं, निवृत्ति भज भावतः ॥२॥ स्ववधूकते त्वयाऽन्यवरणायुधः पालनीयः, न
॥११॥
For
And Persone Oy