SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ ___ त्वत्तुल्यदन्तिदमने निशिताकुशोऽह, श्येनो भवादृशपतत्रिवधेऽहमस्मि । गोमायुभापनविधावहमस्मि सिंहो,-रेक्षुद्र ? किं मम पराक्रमतां न वेत्सि॥१॥ निर्लज ? कस्तव समो भुवनेऽन्य भास्ते, निस्त्रिंशमावहसि केवलभारभूतम् । राज्य दधासि मदनुग्रहतः समान, निर्मानमोहपदवीमधुना भजस्व ॥२॥ एवमनेकधा वचनप्रहरणैस्तंजर्जरीकृत्य साऽमर्षपुरितास्या । तिरवकार, सुमतिप्रमुखंसामन्तमण्डलंसन्मान्य वीरमती खस्वस्थानन्यसृजत । इति श्रीचन्द्ररानचरित्रे तृतीयोल्लासे षष्टः सर्गः ॥ ६॥ ___ ततःसुमतिमन्त्री वाचोयुक्त्या वीरमतींप्रज्ञाप्य तं हेमरथंबन्धनान्मोचयामास, वसनादिकेन सत्कृत्य भोजनश्च कारयित्वा । तं तोषयामास, तदनुवीरमत्याभणितम्-ममाज्ञामुररीकृत्य, वर्तितव्यं सदा त्वया । नृपाऽधम ! मम ध्याना-त्तवास्तु मङ्गलं | शुमात् ॥१॥ हेमरथोऽवादीत-मातर्मत्वा त्वदीयाना, वर्तिध्ये सततं मुदा । अज्ञानतः कृतं मन्तु-मिमं मे चन्तुमर्हसि । २॥ | ततोवीरमत्याऽनुग्रहीतोहेमरथस्तत्पादौ प्रणम्य स्वस्थानं जग्मिवान् । अथाऽन्यदाऽनेककलाकुशलःशिवकुमारनामा कश्चिनटःपरिभ्रमंस्तत्र समागतः। तेन साधनाट्यकलाभीरञ्जितराजलोका नरपञ्चशत्यभूत् । स च नटाधिपो नायकलासु सर्वत्र लन्धकीर्तिरभवत्-राजसभा प्रविश्य स वीरमतींसविनयंप्रणम्य प्राह--श्रीमति ? त्वत्प्रसादेन, दर्शनं तव मेऽजनि । महतां दृष्टिमात्रेण, मादृशानां हि जीवनम् ॥ १॥ वीरमती दृष्टिक्षेपेण तं पृच्छति, नटाधिप ? त्वमायातः, कुतः पेटकसंपुतः । राजन्तेऽसमये नैव, मौक्तिकाभरणान्यपि ॥१॥ सविनयं नटोभणति-धीरराजाङ्गने ? मात-स्तव ख्यातगुणान्स्मरन् । उत्तराशास्थितान्भूपा-यञ्जयनागतोऽस्म्यहम् ॥ २॥ For Private And Personale Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy