SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ www.kobabirth.org Achnatha n Gym मर्षात्पुनः सोऽस्ख-समुदायेन योजितः ॥ ७॥ कस्याऽप्यश्वगतस्येभ-कुंभ निर्मिन्दतोऽसिना । ततः पतन्त्यभात्पुष्प-वृष्टिवन्मौक्तिकावलिः ॥ ८॥ योधाः शस्त्रक्षताः पेतु-भूरितापा रणाशयाः । भूतैर्बुभुचितैयुद्ध-भूरिता पारणाशया ॥६॥ भग्ने चापे गुणे च्छिन्ने, रिक्तीभूते च चाणधौ । कस्याऽप्यासीद् द्विषा, दीर्घ दण्डादण्डि कचाकचि ॥१०॥ श्रुतप्रभावा इह केऽपि वीरा-अभिन्नभावाः क्षतवैरिवाराः। वितेनिरे मलजनरलभ्यं, युद्धं समंताद्विजयामिलापाः ॥ ११॥ सुकविवचनंसत्यापयचिव कश्चिद्विजयलक्ष्मीवुवुर्युनिजदृष्ट्या ब्रह्माण्डलक्ष्यीचकार, संग्रामरसपिपासवाकेचित्कुन्तलाहततुरङ्गमस्कन्धा निजंपौरुषप्रकटीकुवन्तोऽवदन् । हे चत्रवंशतिलका ? युधि संप्रयाताः, शस्त्रास्त्रवृष्टिमनिशं परितः सृजन्तः। संभिद्य वैरिबलमुत्कटमाशु यूयं, तृप्तिं प्रयात परिपूर्णबलप्रभावाः ॥ १॥ संभृतशुद्धोदका तीर्थभूमिकेव वीरगणव्याकुला निशितासिधाराभिर्विद्युन्नतांविभ्राणा रणभूमिरियं विद्योतते. केचिच्च सिंहध्वनिमप्रमेयं, निशम्य लक्ष्यीकृतचापबाणाः । निजेतराञ्जेतुमखण्डवेगा-दिगन्तरं व्याकुलयन्ति नादैः ॥१॥ ___उभयोः सैनिका विमुक्तवन्गंतुरङ्गमान्प्रेरयामासुः । समुद्धतवाजिनांप्रखरखुरोद्धृतेन रजःपटलेन संग्रामस्तम्भस्तम्भितमिव नभोमण्डलमदृश्यत । पदाघातैर्भूतलं कम्पयन्तो विजयलक्ष्मीमाकांचमाणा मिथो वल्गन्तःसमे सुभटा एकैकोपरि डुढौकिरे । परिहितवर्मणां तेषां खड्गधारा विद्युल्लतामधरयन्ति स्म, करश्रेणिस्थितास्तिर्यप्रहृता निशातभल्लामिथो नमस्कारं कुर्वन्त इव समलच्यन्त । धानुष्कधनुर्विनिर्गता आशुगा दृष्टाऽदृष्टलक्ष्यमिदोदृष्टिमार्गमत्यकामन् । ब्रह्माण्डस्फोटयन्त्य इव शतशम्शतघ्न्यो बधिरानपि बोधयामासुः। केचित्कातरा आशंसितजीविताशा विजयाशांपरित्यज्यपलायन्ते स्म, अपरे पुनस्तेषां गृहीतपृष्ठास्त For Private And Personale Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy