________________
ShriMahavir JanArchanaKendra
Acharya:shaKailassagarsunGyanmandir
यदचेतनोऽपि पादैः, स्पृष्टः प्रदहति सवितुरिनकान्तः । तत्तेजस्वी पुरुषः, परकृतविकृतिं कथं सहते ॥ ३ ॥ भवादृशेषु सामन्तगणेषु विद्यमानेष्वयंनृपासदोऽसान्विजेष्यते तदाऽस्माकमुखमप्यदर्शनीय स्यात् । इदकार्यपरकीयमिति मवद्भिन मन्तव्यम् । निजकुलमर्यादामालोक्य स्वामिनोऽर्थे प्राणा अपि दातव्याः । अन्यथा जीवननिष्फलम् । यतः-यजीव्यते चणमपि प्रथितंमनुष्य-विज्ञानविक्रमयशोभिरमण्यमानम् । तनाम जीवितमिहप्रवदन्ति तज्ज्ञाः, काकोऽपि जीवति चिरञ्च बलि भुते॥१॥ यो नात्मजे न च गुरौ न च भर्तृकार्ये, दीने दयां न कुरुते न च बन्धुवर्गे । किं तस्य जीवितफलं हि मनुष्यलोके, काकोऽपि जीवति चिरश्च बलिं च भुते ॥ २ ॥ संप्रति चन्द्रराजस्तु कुक्कुटत्वंप्राप्त इति स्वचेतसि नानेयंसोऽपि युष्माकं सेवा न विसरिष्यति. यतः स नरमूर्धन्यः परोपकृतिरसिकस्तथैवासाभिरपि वर्तितव्यम्
द्वौ पुरुषो धरति धरा-थवा द्वाभ्यामपि धारिता धरणी । उपकारे यस्य मति-रुपकृतं यो न विसरति ॥ १॥
इत्थमन्त्रिवचनविश्वस्ताः सामन्ताः सजीभूय जगुः-सचिवेश्वर ? क्षत्रियास्तुप्राणान्तेऽपिस्वामिकार्यविमुखा न भवन्ति पुनश्चन्द्रराजसेवकानामस्माकं किमुवतन्यम् -
यश्चन्द्रराजभुजपञ्जरपालितोऽस्ति, वीरः स युद्धविमुखो न भविष्यति प्राक् ।
यस्ले कृते यदि न सिक्ष्यति कोऽत्र दोषः, प्राणैरपि प्रधनमूर्धनि संस्थितानाम् ॥ १॥ अथ सर्वेषामैकमत्यविज्ञाय सजीकृतसैन्यः सचिवः सद्यः प्रयाणदुन्दुभिवादयन् पुरतोबहिर्निश्चक्राम. यतः-महौजसो मानधनाग्रयायिनो-नसंहताः संयति लम्धकीर्तयः । प्राणव्ययं नो गणयन्ति सौभटा-इच्छन्ति चान्यस्य सदा पराजयम् ॥१॥
For Private And Personlige Only