________________
Shri Mahavir Jain Aradhana Kendra
11 चंद्रराज
चरित्रम् ॥
॥१०३॥
*******************************++++++****
www.kobatirth.org
राज्यव्यवहारोविधास्यते, आवां वक्तुमपरः कः प्रभुः ? अहंनृपतिस्थाने स्थिताऽस्मि त्वं मे सचिवोभूत्वाकार्यवाहकोभव, नो चेत्कटुफलमास्वाद्य दुरन्तदशांप्राप्स्यसि, अतःपरंतुभ्यंयद्रोचते तदङ्गीकुरु, अधिकंकिंवदामि ! राज्यासनमधिष्ठाय प्रजानां संरक्षणं स्वयमेव करिष्यामि, राज्यमपि निःस्वामिकं न स्थास्यति । स्वकीयंहितमिच्छसि चेन्मदीयंवाक्यंप्रमाणय, समयविदा स चिवेनाऽपि तद्वचनमङ्गीकृतम् । ततोवीरमती भृशं मोदमाना बभाख-मन्त्रिन् ? इतोविलम्बं मा कुरु, सर्वस्मिन्नगरे पटहघोषणामिति कारय । अतः प्रभृतिवीरमतीराज्ञीस्वयं राज्यासनमधिष्ठाय राज्यकार्यविधास्यति, अतः सर्वजनैस्तदनुशासनमान्यमिव शिरसि वहनीयम् । यो हि तदाज्ञामवधीरयिष्यति स दण्डार्हो भविष्यति, किमधिकोक्तेन ? आभापुरीनिवासेन ये निर्विद्या यमनिकेतनं च जिगमिषवस्तैरेव तत्प्रतिपन्थितया वर्त्तितव्यम् । इत्थं तदाज्ञामुद्वहता सचिवेन पटहोऽवाद्यत, तदाकर्णनमात्रतो विस्मिताः पौराः किमिदमिति वितर्कयामासुः, भार्याविना राज्यकर्त्ता नृपतिस्तु श्रुतः, पुरुषाधिष्ठात्री बनिता तु क्वाऽपि नाश्रूयत, आमापुर्यामियंनूतना वार्त्ताऽजनि अस्मिन्पत्तने स्त्रीराज्यंजातं यतः सकलः पुरुषवर्गःप्रक्षीण इति पौरजनाः परस्परंवदन्तिस्म, भृशंखिन्नमानसा अपि लोका वीरमतीभयेन किमपि न प्रोचुः । वीरबुद्धिःसा सर्वतोऽभयं दिशन्ती प्रलीन भूपालंदिमण्डलमन्वशासत् । विजितारिमण्डलाः सामन्ता अपि मान्यमिव तदाज्ञामाराधयन्तिस्म, चन्द्रराजं सा मनसाऽपि नस्मरति, यो हि तन्नाम गृह्णाति स मृत एव विलोक्यते, अखण्डिताज्ञांप्रवर्त्तयन्ती मदमलीनमानसा राज्ञी मन्त्रिणं स्वाधीनीकृत्य भृशंतुतोष, विज्ञातश्च तथा मादृश:सचिवोमे मिलितः, मद्वचनमनुस्मरन्नयंवाद्यवादयति, स्वयमपि चन्द्रराजं न स्मरतीतिमन्यमाना सा गतकालमपि नाऽचिन्तयत् । अथान्यदा सावधानहृदयः सचिवोवीरमती मत्रवीत् मातृके ? -
For Private And Personal Use Only
Acharya Shri Kaassagarsun Gyanmandr
*(***************
तृतीयोज्ञासे
पश्चमः
सर्गः ॥
॥१०३॥