SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra दी चंद्रराज चरित्रम् ॥ 118 11 54-103+UK++*****-० www.kobatirth.org सुरभितदिगन्तराल सरोजवृन्दमकरन्द लोलुपमधुपमधुरध्वनिध्वनितायां भूयः पाठीनपरावर्त्तनोच्छलद्वारिसेकैर्व्यपनीत पथिक परिश्र मायां तद्रामणीयकं निरीचितुमिव मन्दमन्दप्रसारिणा मारुतेन प्रकटितानङ्गजनककल्लोलमालायां तस्य पुष्करिण्यामवततार. अनुत्तरं तद्रम्यत्वं निरीक्ष्य कलितप्रभूतप्रमोदो महीनाथो यथेच्छं जलपानेन निवृत्ततर्षो विहितमज्जन क्रियो - वीतव्रीडं प्रेमपाशवशीभूतो वारिक्रीडां निर्वर्त्तयामास ततोऽतिप्रमुदितमानसो नृपतिर्यथातोषं मकरन्दरसं पपौ, विविधक्रीडामिषेण पुष्करिणीं भूषयित्वा बहिर्निर्गत्यापराणि वसनानि परिहितवान् ततो समाहितमतिः स्वस्थीभूतस्तच्छोभा निरीक्षणप्रहितेक्षणः चमापतिस्तत्र रहः स्थितामेकां विशालां जालिकामद्राक्षीत्, ततः सूक्ष्मेचिकया त्तदृष्टिस्तत्रातिरमणीय सोपानश्रेणीमवलोक्य तत्रावततार. इतिश्रीचन्द्रराजचरित्रे प्रथमोलासे प्रथमः सर्गः ॥ १ ॥ अथ विकरालविलसदसि सहायो वीराग्रणीर्नृपतिः सोपानवर्त्मनाऽवतरन् कौतुकप्रियोऽग्रे ब्रनेकं महारण्यं ददर्श, निजसच्चसहचरो निर्भयचेतास्तत्र गच्छन् कस्याश्विद्धालिकायाः करुणस्वरं रुदितं निशम्य जातविस्मयो व्यचिन्तयत्, हो ? अस्मिन् पातालविवरे काननं कुतः १ अस्मिभिर्जनेऽरण्ये दीनानना बाला च करुणस्वरं कथं रोदिति ? असंभाव्यमेतदिति वितर्कयन् यमजिह्वामं लोलख नर्त्तयन् परोपकारैकरसको निबद्धकचस्वत्कालं तच्छद्वानुसारी प्रयातुं लग्नस्तावदग्रे मुद्रितलोचनयुगलो विधिविहितपद्मासनासीन ऋजुकायो ध्यानस्थित इव जपमालाकलित करकमलः कश्चिद्योगी लक्ष्यीचक्रे तदन्तिके विविधकुसुमधूपालीप्रमुखोपचारवस्तुसंभारः विकोषखङ्गलतिका चैका संस्थापिता, तदग्रे च विनिर्मिते | कुण्डे प्रचण्डज्वालाजटिलोऽनलो जगज्जिघत्सन्निव प्रज्वलति, इत्थमसमञ्जसप्रयोगदर्शनेन विवेकविकलं तं विभाव्य नृपस्तस्मै For Private And Personal Use Only ****036030034-03-04-03+4 Acharya Shri Kassagarsuri Gyanmandir प्रथमोल्ला से प्रथमः सर्गः ॥ ॥ ४ ॥
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy