________________
ShriMahavir JanArchanaKendra
Acharya:shaKailassagarsunGyanmandir
सचिवान्तिकमभ्येत्य व्यजीज्ञपत्-सुबुद्ध ? नृपदर्शनमन्तराऽस्माकमेकोमासोऽयुतवर्षायितः, अधुना स्वामिदर्शनं न भविष्यति चेत्क्षणमप्यत्र न स्थास्यामः । दिगन्तपरिश्रमणेन वयं जीवनवृत्तिकरिष्यामः, प्रसादंविधाय नःप्रयाणाज्ञांदेहि ॥ यतःअराजक मण्डलमाशु नश्यति, सुसम्पदामास्पदमप्यनीशम् । ततः शुभं चिन्तयता मनस्विना, विदेश एवोत्तमउच्यते ज्ञैः॥१॥ कुलेन हीनो नृभवोऽदयो वृषो-रदोगजो देवगृहं विमूर्तिकम् । सरोऽजलं वक्त्रमनक्षिकं यथा, न शोभते राज्यमराजकं तथा ||॥२॥ प्रजाः प्रजानाथनिरीक्षिताः सुखं, जीवन्ति दुर्दैवमपि त्यजन्ति । सदा प्रजारञ्जकभूपदर्शन-मभ्यर्थयन्तिस्म दिवौकसोजन्वहम् ॥ ३ ॥ अतोऽस्माकमीचणानि पार्थिवदर्शनेन कृतार्थय, ततो मन्त्रिणा कथितम्सभ्याः? प्रभोर्दर्शनमुन्नतिप्रदं, जातं न मे जीवितधारणक्षमम् । मासप्रमाणानि दिनानि वर्षा-ऽयुतानि जातानि ममाऽपि तद्विना॥१॥
राजभक्ताः सुखेन तिष्ठत, अधृति मा कुरुत, अचिरेण तच्छुद्धिंविधाय युष्मान्प्रीणयिष्यामि, विदेशं मा व्रजत, सुदैवयोगाद्भव्यंभविष्यति, "दैवाधीनं जगत्सर्वम्" विपत्तौ विषादो न कर्त्तव्यः, यतः-विपत्तौ किं विषादेन, संपत्तौ हर्षणेन किम् । सुखदुःखमिदं दृश्यं, चक्रवत्परिवर्त्तते ॥१॥ विपदोऽपि दैवबलात्तूर्णविघटन्ते, अतो विपत्काले बुद्धिमता धैर्यधनंरक्षणीयम् -
उक्तञ्च-विपदि धैर्यमथाऽभ्युदये क्षमा, सदसि वाक्पटुता युधि विक्रमः । यशसि चाऽभिरुचिर्व्यसनं श्रुतौ, प्रकृतिसिद्धमिदं * हि वचस्विनाम् ॥१॥
एवं वचनामृतैः सान्त्वयित्वा समानिताः सर्वे पौरजनाः स्वस्वस्थानंजग्मुः। ततः कार्यदक्षः सचिवोवीरमतीमभ्येत्य विहि| ताञ्जलिः सायन्तंप्रजापूत्कारंन्यवेदयत् । पुनस्तेन भणित-मातः ? अराजकंराज्यंकियचिरंस्थास्यति ? नृपतिंगोपयित्वा सत्फलं
For Private And Personlige Only