________________
ShriMahavir JanArchanaKendra
Achanh
sagan Gyaan
भवत्कुमारो विश्रुतगुणोऽलमस्ति, भवतःकुलमपि निष्कलङ्कविभाति, यत:
कुले कलङ्कः कवले कदन्नता, सुतः कुबुद्धिर्भवने दरिद्रता । रुजः शरीरे कलहप्रिया प्रिया, गृहागमे दुर्गतयः पडे ॥१॥ कुलश्च रूपञ्च सनाथता च, विद्या च वित्तञ्च वपुर्वयश्च । एते गुणाः सप्त वरे विलोक्या-स्ततः परं भाग्यवती हि कन्या ।।२।। नृपतिलक ? एते सर्वे गुणाःसमकालमविरोधिनोयुष्मत्कुमारंसमाश्रिताः, गुणहीनस्तु वरोनाऽस्मत्स्वामिने रोचते. यतःप्रकटं मृदुनाम जल्पतः, परुष सूचयतोऽर्थमन्तरा । शकुनादिव मार्गवर्सिभिः, पुरुषादुद्विजितव्यमीदृशात् ॥१॥
अतोगुणिनेवराय कन्यारत्नंप्रदीयते, इतिबहुशोऽभ्यर्थितोऽपिनृपतिरस्मदीयंवचनंनाङ्गीकृतवान् । ततस्तत्रस्थितेन तन्मन्त्रिणा हिंसकेनास्माकंवचनंप्रतिपन्नम् । उक्तश्चास्माभिःसचिवेन्द्र ? कुमारंदर्शय, पश्चात्सम्बन्धंकरिष्यामः, वरमविलोक्य विवाहो न विधेय इत्यस्मन्नरेशितुरनुशासनविद्यते, स्वामिवचनंवयंकथंविलोपयामः तदा हिंसकोऽब्रवीत्-भो मन्त्रिवराः ? अध्ययनाय | राजकुमारोऽधुना निजमातुलसमनि तिष्ठति, विजितरतिपतिरूपःकुमारोजगजनानन्ददायकोविद्यते, सुखेन विवाहोविधीयतां, तद्विलोकनस्य प्रयोजनंनास्ति, निजमनोरथःसफलीक्रियताम् । पुनरस्माभिवरविलोकने बह्वाग्रहोऽकारि, तदेमे भेदसाध्याइतिविज्ञाय तेन प्रत्येकंकोटीधनंप्रदाय वयंनिराग्रहीकृताः, पश्चाल्लोभाभिभूतमानसैरस्माभिर्विवाहोदृढीकृतः । स्वामिन्नीदृशःप्रपञ्चोऽस्माभिर्विहितः, कुमार कीदृश इति नास्माभिर्विलोकितः, केवलंकूटालयहिंसकंजानीमः, इत्यस्मदीयंवृत्तान्तंसत्यमेव जानतादेवपादाः। अयमस्माकमपराधोदुरन्तपरिणामोविद्यतेऽतोभवते यद्रोचतेतद्विधीयताम् । विश्वासघातिनोवयंकांकुगतिंगमिष्यामः १ धिगस्मान्कूटकारिणः,
For Private And Personlige Only