SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ॥चंद्रराजचरित्रम् ॥ ॥६६॥ | आकस्मिकमिमं प्राप्तं दुःखार्णवंतरितुमुपायं न जानामि, कस्यान्तिकेगत्वा न्यायमार्गपृच्छामि ? येन भवतः कीर्तिवल्लीततीयोद्धा-- सर्वत्र प्रसरति, परिणामे पश्चात्तापश्च न स्यात्तथैव भवता विधातव्यम् । अतोषिककिंवदामि ? एवंनिगद्य तस्यांविरताया | सेचतुर्थः सुबुद्धि नृपति प्रत्यवोचत्-स्वामिन् ? कुमार्या कथितंसर्वसत्यंप्रतीयते, अनेन दुर्भगेन कुष्ठिनाऽस्मत्कुमारिका न परिणीता, याव सर्गः॥ तनिर्णयोन स्यात्तावदियंकुमारी निजप्रासादे रक्षितव्या, आभापुर्यातच्छुद्धये दूतः प्रेषितव्यः, तत्र चन्द्रराजोवसति ? तेन चेयं कन्या परिणीता नवेति ? शुद्धिविधाने सत्यस्वरूपंज्ञास्यते, धर्मप्रभावेण सर्वसमञ्जसंभविष्यति, अधुना तनिर्णयमकृत्वा पुत्री वधोऽनुचितः, यथापराधंदण्डप्रदानप्रशस्यते, राज्ञा भणितं-मन्त्रिन् ? पुत्र्यावचनेन वैदेशिकानां प्रपञ्चोज्ञायते, तस्मादिदानी | मसौ भवद्गृहे रक्षणीया, सूक्ष्मधिया निरीक्षणेन सत्यनिर्णयोभविष्यति, पश्चादुचितंकार्यकरिष्यामः। नृपवचनंप्रमाणीकृत्य सुबुद्धिप्रेमलां निजावासमनैषीत् । अहो ? दैवरक्षितस्य विपदर्णवोगोष्पदायते, उक्तञ्च-अरिक्षितं तिष्ठति दैवरक्षितं, सुरक्षितं दैवहतं विनश्यति । जीवत्यनाथोऽपि बने विसर्जितः, कृतप्रयत्नोऽपि गृहे विनश्यति ॥ १॥ प्राप्तव्यमर्थ लभते मनुष्यो-देवोऽपितं लवयितुं न शक्तः। तस्मान्नशोचामि न विस्मयोमे, यदस्मदीयं नहि तत्परेषाम् ॥ २॥ ईशः करस्थीकृतकाञ्चनाद्रिः, कुबेरमित्रं रजताञ्चलस्थः । तथापि भिचाटनमेव जातं, विधौ शिरःस्थे कुटिले कुतः श्रीः॥३॥ स्वयं महेशः श्वशुरो नगेशः, सखा धनेशस्तनयो गणेशः। तथापि भिचाटनमेव शंभोबलीयसी केवलमीश्वरेच्छा ॥४॥ दाता बलिः प्रार्थयिता च विष्णु-र्दानं भुवो वाजिमखस्य कालः । नमोऽस्तु तस्सै भवितव्यतायै-यस्याः फलं बन्धनमेव जातम् ॥ ५॥ For Private And Person Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy