________________
॥चंद्रराजचरित्रम् ॥
तृतीवोल्लासेतृतीयः सर्गः॥
॥
१॥
उक्तश्च-वैपरीत्यं गते दैवे, बहूनामपि क्रोशताम् । वल्लमा नैव जायन्ते, नीतिमार्गानुवेदिनः ॥१॥ क्षणमात्रतस्तेषामार्त्तध्वनिः परितः प्रासीसरत् । तद्वा श्रुत्वा प्रेमलायाःपिता निर्वेदमापनस्तत्र समागमत् । जामातरश्च कुष्ठिनं विलोक्य स्वयंनिर्विण्णो रुदतः सर्वान्सान्त्वयन् व्यलपत् , रे दैव ? आकस्मिकमिदंकिंजातम् ? प्रमोदाऽवसरे विषादोमया लम्धः, एवंविचिन्तयता नृपेणैतेषांकूटवृत्तिनैज्ञाता, ततोहिंसकोऽब्रवीत् ,-राजन् ! किमत्र वदामि ? यदत्र सञ्जातं तनिवेदयितुं मे जिह्वा न प्रचलति, देशान्तरस्थायिनामस्माकं वार्ताकःसत्यापयिष्यति ? तथाऽप्यहं वच्मि, रूपेण निर्जितमकरकेतुरयं कुमारोनिशि भवताऽपि विलोकितः, दिव्यरूपोऽयंसर्वजनश्लाघनीयोऽभूत् । इदानीमस्माकं महदभाग्यप्रादुर्भूतम्, यतोऽस्माभिरत्राऽयंसमानीतः, नृपते ! तव पुत्रीस्पर्शेनार्यकुमारः सहसा कुष्ठी जातः, इयंभवतः सुता चिन्तामणिसमाना निजसबनि रक्षणीया, संप्रति कृपांविधायेमा निजालयं नयत, यूयमेवानया भाग्यवन्तोभवत, नास्माकं प्रयोजनम् । सर्वसमक्षमस्माभिनिवेचते, अस्माकमहितकारिणीयंविषकन्या प्रत्यक्षा दृश्यते, ततोऽनया मृतमस्माकम् , इदं मन्त्रिगदितं सत्यं मन्यमानो मकरध्वजनरेन्द्रो निजपुश्यै भृशं चुकोप, सर्वैवार्यमाणोऽपि स कोपाध्मातस्तांमारयितुमधावत् । अहो ? राजानःश्रोत्रविहीना भवन्ति, केषामपि वल्लभास्ते न भवन्ति, यतः___ काके शौचं मद्यपे तत्वचिन्ता, क्लीचे धैर्य स्त्रीषु कामोपशान्तिः। स चान्ति तकारे च सत्यं, राजा मित्र केन दृष्टं श्रुतं वा ॥१॥
ततः प्रकृपितंराजानं विज्ञाय कनकध्वजः समुत्थाय तत्करंगृहीत्वाऽवोचत-भूपते ? कोपं संहर, अस्मिन्कार्ये कस्यापि का दोषो नास्ति, मदीयदुष्कर्मणामुदयोऽयमजनि, तस्मात् क्रोध मा कुरू, स्त्रीहननं महते पातकाय जायते ।
For
And Persone Oy