________________
Achana ha
n
ya
॥ चंद्रराजचरित्रम् ॥
तृतीयोल्लासेतृतीयः सर्गः॥
॥९०॥
मृगाङ्कमुखि? मदन्तिकं समागच्छ, दूरस्थिता कथंवदसि ? सुखेन मया सार्द्ध हास्यविनोदं कुरुष्व, चिरं क्रीडाविलासेन नवयौवनं सफलय, मनोरमे ? चिन्ताचान्तमानसा मा भूः, असाधारणोऽयमावयोर्योगो दैवेन संपादितः, तस्य कृतार्थतां त्वं संपादय. इदं यौवनंचिरं न स्थास्यति.
यतः-आयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्री-राः सङ्कल्पकल्पा घनसमयतडिद्विभ्रमा भोगपूराः। कण्ठाश्लेषोपगूढं तदपि च न चिरं यत्प्रियाभिः प्रणीतं, तस्माच्छीलं स्वकीयं सततमकलनं पालनीयं सतीभिः ॥१॥
अतोनिरवद्यशीलमभीप्सन्त्या त्वया भर्तृसङ्गतिन हातव्या, भर्तृमत्याः पतिनिपेवणमिहाऽमुत्र सुखसमृद्धये जायते, प्रथममेव विमनस्कत्वंकथंद्योतयसि ? नावयो सम्बन्धोऽनुचितः, त्वंसौराष्ट्राधिपतेर्दुहिताऽहश्च सिंहलाधीशस्याङ्गजोऽस्मि, ईदृशो योगः प्राक्तनसुकतेन लब्ध इतिवदनस्वयमेव स सचरं समुत्थाय तस्याःकरंगृह्णाति तावत्सा परुषवचनेस्तंतजैयित्वा भणतिस्मरे दुरात्मन् ? मदङ्ग मा स्पृश, दूरतोयाहि, स्फुटितढकासमानस्त्वं दृश्यसे, मत्पाणिग्रहस्त्वया न विहितः, आजन्मजातकुष्ठोऽपि भवान् भूमिगृहे कथं रक्षितः? भवादृशंपुत्रं प्रसूतवती त्वदीया जनन्यपि किं न लज्जिता ? इतस्तावच्छीघ्रं पलायस्थ, मौक्तिकमालांध कामस्याऽपि तव वाञ्छितार्थलाभो न भविष्यति. मत्पन्यङ्कमारुह्य मद्भा न भविष्यसि, सुवर्णकलशोपशोभिते महोनते देवमन्दिरशिखरे लब्धास्पदोबलिभुक् कदाचिदपि वैनतेयशोमां न लभते. रे मूर्खशिरोमणे ? दिव्यरूपांमामालिङ्गितुमुत्कण्ठितोऽसि, किन्तु प्राक्तवमुखन्तु निभालय, सुधा कथमुत्सुकायले ? एवं विवदमानयोस्तयोः कपिलाभिधा तस्य धात्री तत्र समागत्य वदतिस्म-चाङ्गि किमेवमसजनोचितंकरोषि ! निजसामिनः सान्निध्यभजस्व, दूरस्थिता त्वं न शोमसे,
*
॥९
॥
For Private And Personale Only