SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Acharya Shetan Gyaan ॥चंद्रराजचरित्रम् ॥ | तृतीयोलासेतृतीयः सर्गः॥ नामनदी मनोरथजला, तृष्णातरङ्गाकुला, रागग्राहवती वितर्कविहगा, धैर्यद्रुमध्वंसिनी । मोहावर्त्तसुदुस्तराऽतिगहना, प्रोसुङ्गचिन्तातटी, तस्याः पारगता विशुद्धमनसानन्दन्ति योगीश्वराः ॥१॥ एवमाशावशीभूता समयंयापयन्ती वीरमत्याज्ञाश्च पालयन्ती सा सम्बधाराधनं करोति, यतः-धर्म प्रसङ्गादपि नाचरन्ति, पापं प्रयत्नेन समाचरन्ति । आश्चर्यमेतद्धि मनुष्यलोकेऽमृतं परित्यज्य विषं पिबन्ति ॥१॥ तथाच-धर्मे तत्परता मुखे मधुरता दाने समुत्साहिता, मित्रेवश्चकता गुरौ विनयिता चित्तेऽतिगम्भीरता। आचारे शुचिता गुणे रसिकता शास्त्रेऽतिविज्ञानिता, रूपे सुन्दरता हरौ भजनिता सत्वेव सन्दृश्यते ॥२॥ धर्मार्थकाममोक्षेषु, वैचक्षण्यं कलासु च । करोति कीर्ति प्रीतिच, साधुकाव्यनिषेवणम् ॥ ३ ॥ कदाचिद्वीरमत्या साकं तदाज्ञाऽनुसारिणी सा रसालतरुमारुह्य कौतुकान्वेषिणी देशान्तरप्रयाति, तत्रानेकविधानि कौतु- | कानि सा विलोकयति, पञ्जरस्थंकुक्कुटमपि निजेन सहैव नयति, चणमपि तद्वियोगं न सहते, निजापत्पयोनिर्धित कामा सा जपोपवासादिकंसनियमसमाचरति, यतःजपोपवासैर्दुरितानि नाशं, प्रयान्ति सद्धर्मसमाश्रितानाम् । सर्वज्ञसंकीर्तिततत्वबोध-स्तत्सेविना सौख्यकरो हि लोके ॥१॥ इतः परिणीतप्रेमलालक्ष्मीकश्चन्द्रराज किश्चिन्निमित्तमुद्दिश्य विमलापुरीतोनिजराजधानी यियासुर्विनिर्गतस्तमनुव्रजन्तीं साऽपि प्रयाणकर्नुलना । तदानीहिंसकनामा मन्त्री तदन्तिकमागत्य तां न्यवयत् । पतिविरहमसहमानाऽपि श्वशुरालये प्रथमागमनेन लावहमाना सा निवृत्तगमना निजावासेऽतिष्ठत् । ततो मनस्वञ्चविज्ञातवती, मत्पतिःकारणान्तरमुद्दिश्यकाऽप्यन्यत्रगतः, ॥ ९॥ For Private And Personale Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy