________________
ShriMahavir JanArchanaKendra
www.kobabirth.org
Acharya:sha.kathssagarsunGvanmandir
तवाऽयंवल्लभस्तर्हि विविधाऽलङ्कारस्तंविभूषय, तेनैव सार्द्धक्रीडख, खादुतरपक्वान्नस्तं भोजय, एतत्वया नविसरणीयम् , यत्कदाचिदपि तंसमादाय गवाक्षे न स्थातव्यम् । चन्द्रराजः कुक्कुटत्वंप्राप्त इति कस्याप्यग्रे त्वया न प्रकाशनीयम् । पौरजना इमं न पश्येयुस्तथा त्वया विधातव्यम् । एवंतामुपदिश्य तस्यांनिवृत्तार्यातद्वचनंप्रमाणयन्ती गुणावली पञ्जरकरा तस्माद्वावात्सत्वरमुत्थाय प्रासादान्तर्जगाम । यतः-विपश्चितां सदुपदेशः, प्रसरत्यञ्जसा हृदि । अश्मखण्डसमान्मृढा-नस्पृशत्युपदेशनम् । १॥
इतिश्रीचन्द्रराजचरित्रे तृतीयोल्लासे द्वितीयः सर्गः ॥२॥ ततोऽनुदिनं सा स्वकारितैनूतनैरलङ्कारैस्तविभूषयामास, किंबहुना ? प्रतिवासरंतस्यैव परिचर्यापरायणा सा समयंन्यनैषीत् । विश्वस्मिल्लोके सर्वेऽप्याशातन्त्रीनिबद्धा जीवनवहन्ति, आशाधीनमिदंजगच्चकंपरिवर्त्तते दुःखिनामप्याशयैव दिनानि व्रजन्ति,
गुणावग्यपि निजवासरानाशाबन्धनेनातिक्रामति, स्वयंच जानाति तदेतादृशंसुदिनसमेष्यति, यस्मिन्दिने इममनुष्यरूपविलो| कयिष्यामि, एवमाशातन्तुनिबद्धा सा दिवसानत्यवायत् । आशारज्जुनियन्त्रितंजगदेतदखिलम्-तद्यथा-आशानाम मनुप्याणां, काचिदाश्चयेशृङ्खला । यया बहाः प्रधावन्ति, मुक्तास्तिष्ठन्ति पडवत् ॥१॥ तथाच-गिरिमहान् गिरेरब्धि-मेहानन्धेर्नभो महत् । नमसोऽपि महद्ब्रह्म, ततोप्याशा गरीयसी ॥२॥ आशैव राक्षसी पुंसा-माशैव विषमञ्जरी । आशैव जीर्णमदिरा, तथाऽप्याशा बलीयसी ॥३॥ तथैव-आशावलम्बोपचिता न कस्य, तृष्णा लता कस्य फलं न सूते । दिने दिने लब्धरुचिर्विवस्वा-मीनं च मेषश्च वृषञ्च भुते ॥ ४॥ आशाऽऽरामोजगत्यसुरक्ष्योऽलब्धार्थमालाकारैस्तद्यथा-आशा
For Private And Personlige Only