SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 19-**-*-**-•£*•***************←→ www.batirth.org कटकरचना न घटते, अयन्तु तब सूनुललनीयः परिपाल्यः त्वयि विद्यमानायामर्थनिश्चिन्तमनास्तिष्ठति, किमपि तव कथनीयश्चेन्मांसुखेन कथयस्व, मत्पतिश्च मा पीडय, इत्थंगुणावलीप्रलापमाकर्ण्य वीरमती प्रोवाच, मदिराचि ? अज्ञाततत्त्वा त्वंदूरंयाहि. ईदृग्विधेन सूनुना मे कृतम् । सर्वथा तमुद्धतं न विमोक्ष्यामि त्वदुक्तवचनानि शूलायमानानि न सहिष्ये, तेन सुवर्णेन किफलम् ? यद्धारणेन कर्णखुय्यति । अस्य मुग्धस्य मनसि किमपि नायातं ? यतोऽयं ममैव च्छिद्राणि निरीक्षितंलग्नः, अतोऽस्य फलन्त्वस्मै दातव्यमेव, एवमभिधाय शेषारुणनयना सा चन्द्रराज कण्ठपीठेऽसिधारांवाहयितुंयावत्प्रवर्त्तते तावद्विदि समया गुणावली नेत्रयोरधारांवहन्ती मध्ये तयोरपतत्-ततः सा वश्रूकण्ठे विलग्य दीनमुखी बभाषे हे मातः ? प्रसादंविधाय मे पतिभिक्षां देहि, यद्यपीदंकार्यमनेनाऽविचारितंकृतंपुनरेवं न करिष्यति, जीवन्नर्ययावजीवंस्वदुपकारंमंस्यते, कदाचिदिमंमारयिष्यसि देदिदंराज्यभारं कोधारयिष्यति १ किञ्च सामान्यतोऽपि प्राणिहिंसनं महतेऽनर्थाय जायते तद्यथा - हिंसा नैव विधातव्या, प्राणैः कण्ठगतैरपि । स्वकर्त्तव्यन्तु कर्त्तव्यं, प्राणैः कण्ठगतैरपि ॥१॥ राजदण्डभयाद्धिसां, नाचरत्यधमो जनः । परलोकभयान्मध्यः, स्वभावादेव चोत्तमः ॥ २ ॥ हिंसासते चेतसि, धर्मकथाः स्थानमेव न लभन्ते । नीलीरक्ते वाससि, कुङ्कुमरागो दुराधेयः ॥ ३ ॥ मनुजः कुरुते हिंसां, बन्धुनिमित्तं वपुर्निमित्तश्च । वेदयते तत्सर्वं नरकादौ पुनरसावेकः ॥ ४ ॥ अहो ? मानवाः साहसमकृत्यमपि न विदन्ति मोहमूढात्मानोऽचिरेण पापरताच भवन्ति यत्नेन पापानि समाचरन्ति, धर्मं प्रसङ्गादपि नाचरन्ति । श्राश्वर्यमेतद्धि मनुष्यलोके, क्षीरं परित्यज्य विषं पिबन्ति ॥ १ ॥ तथा च-- धर्मस्य फलमिच्छन्ति, धर्म नेच्छन्ति मानवाः । फलं पापस्य नेच्छन्ति, पापं कुर्वन्ति सादराः ॥ २ ॥ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir 80803+**4803++9+******+
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy