SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ यतः--नृत्योत्कण्ठितभावनो नटवरो लेथे महासम्पदं, सम्बोध्य क्षुभितो हि तापसमुखान्यद्वविजेच्छाऽधिकाम् । तेभ्यस्तद्वदनन्यशर्मजननी धैर्यक्षमाधारकाः, सेवन्ते सुखवल्लरी भवत भोस्तस्मात्स्वधर्मे रताः॥१॥ तथाहि-सुखसंपत्तिनिधानधन्यमहिमजम्बूद्वीपाभिधे द्वीपे, निभृतविविधवस्तुनिचये भरतक्षेत्रे, मध्यखण्डमखण्डमलाबच्छुभश्रेणिनिलयंशुभङ्करं नाम नगरंसमस्ति, तस्मिन्मानवधर्मपरायणोन्यायमार्गनिपुणोऽपि धनसञ्चयक्रूरग्रहगृहीतचेताःसततमर्थोपार्जनसंसक्तमतिर्धनवल्लभोनृपतिर्निवसति, प्रीतिपरायणा स्वजनेषु दक्षबुद्धिस्तस्य प्रीतिमती महिषी वर्तते, तत्कुक्षिसंभवः| प्रियङ्करनामा पुत्रःसमभवत् , तदनु चन्द्रप्रभाऽभिधेया चैका तयोःपुत्री समजनि । अथ धनप्रियनामा तत्सचिवस्तस्यभार्याल* मीवती बभूव, तयोः सूनुःसद्बुद्धिनिधानः सुबुद्धिनामाऽभवत् । पूर्वपुण्यप्रभावनियन्त्रिताःसर्वे ते सपरिवारा अमन्दानन्दनन्दिता दिनान्यतिचक्रमुः । परन्त्विलापतिप्रधानावुभावपि स्वाभिधांयथार्थसमर्थयन्तौ कृपणशिरोमणित्वंधारयन्ती कार्यधुरांनिर्वहतः । दानादिकसत्कर्मणि कपर्दिकाप्रमितमपि धनव्ययं न कुरुतः, प्रत्यहमर्थवृद्धिःकथंभवेदितिचिन्ताचान्तचेतस्को नीतिमार्गमपि न । स्मरतः । अन्येचुरतिसमृद्धिसमन्वितंशुभङ्करनगरंतत्ख्यातिञ्च जगतीतले विस्तृतांश्रोत्रातिथीभूतांविधाय देशान्तरविवरेषु परिभ्रन्नात्यकलाकलापेषु लब्धकीर्तिःसाकेतपुरवास्तव्योजनप्रियनामा नाट्यकर्मकर्मठोबृहत्परिवारपरिवृतोनराधिराजान्प्रतिप्रदे शरञ्जयस्तत्र क्रमेण समागतः। चिन्तितश्चतेन जनप्रियेण-नराधिपा यत्र वसन्ति पत्तने, समृद्धिभाजोऽपि न तत्र गौरवम् । * भजन्ति लोका विदितप्रभावका-स्तुष्टा हि भूपा वितरन्ति संपदः ॥१॥ इत्थंविहितनिश्चयःस नटाधिपः सपरिवारोनृपरीतिमजानानोनृपसदसि समभ्येत्य नृपनिदेशतोविहितप्रणामाञ्जलिर्दत्ताशी For And Persone ly
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy