________________
HI मनोरथास्त मृगजलबन्नार्थसाधकाः । स्वप्नवार्ता कदापि कार्यसाधिका नैव जगत्रये जायते देहिनामित्याप्रवचनाखवतान्तं * वृथैव त्वविद्धि, प्रियतम? भवता विमलापुर्या स्वमावस्थायामहव्यलोकि. महन्त्वत्रेव भवतः सन्निधौ परिचर्यापरायणा संस्थि
ताऽस्मि, पुनः सा नगरीत्वितोऽष्टादशशतक्रोशान् दूरं वत्तते, एतावडूरतरं प्रयाणमेकस्यां रजन्यां कथं सम्भवेत ? ततोभवदुक्तिः सर्वथाऽमाननीयैव, अनुचितं वचनं कथं मन्यते ? चन्द्रराजोऽवादीत् , सुवदने ? अहन्तु त्वामुपहसामि. खटक्तिप मेऽतीव विश्वासो वर्तते, त्वामन्तरा मे प्रियतरं किमपि न विद्यते, इति गुणावली निजाभिप्रायं ज्ञापयित्वा पूर्ववत्सनरेशस्या साई समाचरत् ॥
इतिश्रीजगद्विभूषणशासनचक्रवर्तिस्वपरसमयपारगामितपागच्छनभोमणिप्रबलतरपुण्यप्रकाशकपूज्यपादमहोपकारिप्रातःस्मरणीययोगनिष्ठाऽध्यात्म
ज्ञानदिवाकरश्रीमबुद्धिसागरसूरिपुङ्गवशिष्यश्रीमद्-अजितसागरसूरीश्वरविरचितेचन्द्रराजचरित्रेगद्यपद्यात्मकेसंस्कृतप्रबन्धे चन्द्रराजसिंहलेशमिलनकनकध्वजकथाश्रवणभाटकपाणिग्रहणपुनराभापुरीगमनरूपाभिः कलाभिश्चतसृभिःसमन्विते
प्रबोधनामद्वितीयोल्लासे पञ्चमः सर्गः समाप्तः ॥ समाप्तश्चायं द्वितीयोल्लासः ॥ २ ॥
For Private And Personale Only