SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ स्वामिनोहितकर्मणि सदैव सत्प्रवृत्तिर्विधेया ___ यतः-पत्यनुकूलं सुतरा-माचरणं संविधेयमनघानाम् । धर्माधर्मविवेको-जागर्ति हि लोकबन्धूनाम् ॥१॥ ___ कुतश्चित्प्रमदाजनोनिजपतिमनुकूलयितुमकृत्यमपि विदध्यात् , सत्कृत्यन्तु विशेषतः कुर्यात् । भार्या सततंपत्यनुरागिणी भारमेव सेवते, मातातु पुत्रहितपरायणा भवेत्तत्र किमु वक्तव्यम् प्रिये ? मदर्थ त्वया सकलां रजनी यावजागरणं विहितं तन्महोपकारंमन्ये, दम्पत्योः सत्यप्रीतेलक्षणश्चानेन व्यज्यते, तथाऽपि त्वमसत्यवादिनी ज्ञायसे, यदि त्वंमृषाभाषिणी भवेस्तदा | वायसाः कृष्णवर्णा भवेयुः, यदि मत्कृते प्रभोरग्रे रासक्रीडां न कुर्यास्तदा जलनिधिः क्षारजलोभवेत् , तथैव हिमकरश्चतुषारराशिंवमेत् , वामन्तरा मत्कृते रात्रिजागरणरता काऽन्या भवेत् ? यतोऽखिलमालवदेशकार्यभारश्चम्पादेव्यामापतित इत्युक्तिः सत्या प्रतीयते, सुमुखि ? त्वदुक्तां वात्ता सत्यां जानामि, मद्विश्वासस्त्वयि सदैव तिष्ठति. या सकलाऽपि विभावरी जिनेन्द्रगुणगानेन येषां व्यतीयते तेषामहोभाग्यमन्ये, यतः-जिनेन्द्रगुणगानेन, दिनान्यायान्ति यान्ति च । तेषां हि जीवनं सत्यं, जीवन्मृतोऽन्यथा स्मृतः॥१॥ ___ जिनेन्द्रभक्त्या मानवाः संसारं गोष्पदसमं जानन्ति, कम्बुकण्ठि ? तीर्थकृतोगुणग्रामस्मरन्त्या त्वया महोत्सवो यथावि| हितस्तथामयाऽप्यर्द्धरात्रेस्वप्नएकोदृष्टः, यथा त्वं मदीयविमात्रासार्द्धमितोऽष्टादशशतक्रोशदूरवर्त्तिन्यां विमलापुर्या गताऽऽसीः, तत्र चैकंगुणरूपशालिनं नृपपुत्रीं च परिणयन्तं पुमांसं विलोक्य जातकौतुकात्र त्वं पश्चात्समायातेति, त्वद्वा या मे स्वमस्य च महदन्तरं विद्यते, परन्तु स्वमस्य सत्यत्वं कथं ज्ञायते ? मिथ्याभूतः स्वमव्यवहारोबहुधा लोकेषु प्रचक्ष्यते, त्वया साचा १३ For Private And Person Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy