SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Achanach sagan Gyaan ॥ चंद्रराजचरित्रम् ॥ !॥६८॥ जातस्तर्हि प्रसादं विधाय क्षम्यताम् , निजाङ्गनाऽपराधस्तु विज्ञेन विशेषतः सहनीयः । द्वितीयोलाउक्तश्च-अपराधसहस्राणि, क्रियन्तेऽहनिशं जनैः : क्षमन्ते सज्जनाः सद्यो-नम्रीभूते जने सदा ॥१॥ सेचतुर्थः किञ्च-अबलाजनतर्जनप्रिया-जनयन्ति प्रकृतिप्रकोपभूतम् अयशः खलु लोकगर्हितं, तदलं कोपधिया भवद्विधानाम् ॥२॥ ___भवतः सनिधावहंतु स्वल्पमतिरस्मि, प्राणप्रिय ? अचिन्त्योऽयं भवत्सङ्गमो मे संजातः, अन्यथा क विमलापुरी, आभा सर्गः ॥ पुरी च क्व, ? अयं योगस्तु विधात्रैव प्रतिपादितः, भवदुक्तवचनतत्वमवेदि मया, नाऽहं नादृश्यविज्ञाऽस्मि, यतो गूढार्थ न जानामि? पुनर्विज्ञातग्रहो न पीडयति, मदुपेक्षणेन तव का शोभा भविष्यति ? क्रूरभावस्त्वया न विधातव्यः, तब श्वशुरेण संप्रदायो चितदानविधौ न्यूनता न विहिता, तथाऽपि तत्सम्बन्धिनी या काचिदपूर्णता विद्यते चेचया प्रकाशनीयम्, यतो जामाता वतीव || वल्लभो भवति श्वश्वादीनाम् । निर्हेतुकं रोषं विधाय तुष्णींस्थातव्यमित्यमांप्रतम् । भवादशानांबालवदाचरणं लजाकरं जायते। स्वामिन् ? इयं दशा तु विज्ञाततचानां मुनीनामुचिता, भवाँस्तु संसारपथे स्थितः, अतः सम्यक्त्वा विनोदेन प्रार्थयन्तीमां रञ्जय, अक्षक्रीडाऽवसरे भवदुक्ता गूढोक्तिमा न विस्मरिष्यति, कदाचिन्मामनादृत्य भवानितो गमिष्यति तदप्यहं तव निवासभूता पूर्वदिङ्मुखमण्डनमाभापुरी जानामि, तत्र समेत्य भवदर्शनेन निजात्मानं तोषयिष्यामि, इत्थं तदीयवाग्विस्तरं समाकर्ण्य चन्द्रराजोऽब्रवीत्-सुमुखि, १ अकालिकोऽयं हठस्तेऽनुचितः, यद्भावि तद्भविष्यति देवघटनामन्यथाकतुं का समर्थः ? यत:-प्राप्तव्यमर्थ लभते मनुष्यो-देवोऽपि तं लङ्कयितुं न शक्तः । तस्मान्न शोचामि न विस्मयो मे, यदस्मदीयं न हि तत्परेषाम् ॥ १॥ गजभुजङ्गमयोरपि बन्धनं, शशिदिवाकरयोग्रहपीडनम् । मतिमताश्च समीक्ष्य दरिद्रता, विधिरहो ॥६ ॥ For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy