SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra B+******++++**++******+*03-**-03 www.bobatirth.org. यतः - कार्यदक्षनरो यात्र - स्कार्यहानिर्न जायते । तावत्तत्त्वधिया ज्ञात्वा तं देशं परिवर्जयेत् ॥ १ ॥ इत्थं परुषाचरां तदुक्तिं चेतसि घ्यायश्चन्द्रराजस्ततः प्रयातुं मनश्चक्रे, यतश्रोक्तम् - वीर्यं तदेव परकीयपराजयज्ञं, धैर्य तदेव समता गुरुसङ्कटेऽपि । धर्मः स एव शुभचिन्तनमस्ति यत्र, दाच्यं तदेव समयोचितवर्त्तनश्च ॥ १ ॥ किञ्च तेजस्वी तुरङ्गमस्तर्जनां न सहते, जगज्जनाः समरभूमौ विजितसुभटं शूरवीरं कथयन्तु नाम, पुनर्यथार्थशूरास्तु वचनमात्रमसहमाना एव निगद्यन्ते, विलोक्यतांचचनमात्रेण परिणीतां प्रमदां त्यक्तुमयं तत्परो जातः किञ्चिन्मात्रमप्यौदासीन्यं स न जगाम, अथ तूर्ण सज्जीकृते रथे प्रेमलासहितं चन्द्रराजमुपवेश्य सिंहलेशो निजोचारकम चालीत्, वर्त्मनि व्रजन्नर्थिसार्थाननिवारितदानैरयाचकानकार्षीत् । वाद्यमानैर्मङ्गलतूर्य निःस्वनैर्बन्दिजनो घुष्टजयजयारवैश्च दिगन्तान्वधिरयन्सभार्यः स्यन्दनारूढश्चन्द्रराजःप्रतिस्थानं जनमनांसि रञ्जयन् राजमार्गमयासीत्, तद्दर्शनोत्सुकाः पौरजना अपि प्राकारभवनानामुपरिभागेषु परस्परमङ्गोपाङ्गपीडनानि सहमानाः क्षणमनिमेषलोचना बभूवुः । कुमारदर्शनोत्कण्ठयोज्झितगृह कर्मणां पौराङ्गनानां विविधालापविश्रमाश्च प्रावर्त्तन्त । कुमारस्वरूपं द्रष्टुं सच्चरं गन्तुमशक्नुवती काऽपि मुग्धाऽतिविशालं निजनितम्बाऽऽभोगं निन्दति, काचिदर्धप्रसाधितं निजपादमाकृष्य सहर्षमानसा मार्गभूमिं रञ्जयन्ती कुमारस्वरूपविलोकने कौतुकिता धावति, पीनघनस्तनभारेण प्रतिपदं प्रस्खलन्ती काsपि गतिभेदमातन्वाना तरुणजनैईस्यते । काचित्कुङ्कुमभ्रान्त्या निजललाटपट्टे कजलेन मण्डयित्वोत्तानमना हसन्तमपि युवा जगणयन्ती व्रजति, काऽपि निजसहचरी भगति - त्रिलोकसुभगोऽयं मनोभवो देवो विद्यतेऽन्यथाऽस्य पृष्ठभागे रतिदेवी कथं स्थानं लभते ? अन्या वदति, मुग्धे १ मा वदेदृशमसङ्गतम्, यतस्तदङ्गमीश्वरेण दग्धं श्रूयते, कान्तिस्तु दूरे । 1 १२ For Private And Personal Use Only -*********- 4000/-X******** Acharya Shri Kissagarsuri Gyanmandir
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy