SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra *********** www.khatirth.org चितोऽयंविवाहसम्बन्धोऽप्रार्थित एव संप्राप्तः, ततोऽयं सर्वथाऽङ्गीकर्त्तव्यः, कुलदेवतांसमाराध्य कुमारवपुर्वयंनीरुजंकरिष्यामः, hear fearप्रसङ्गः ?, भवत्प्रसादेन सर्वसमीचीनंभविष्यति, अतोऽधुनाविवाहनिषेधो न कर्त्तव्यः, दैवलब्धपरित्यागो - मनीषिभिर्न विधेय इति नीतिविद्भिरनुष्ठितेऽध्वनि चरतां न काऽपि क्षतिः, "यतः प्रारब्धस्यान्तनयनंप्रथमंबुद्धिलक्षणमिति " संप्रधार्य विशेषतोऽयमर्थः साधनीयः, स्वामिन् ? अस्मिन्भूतले सदुक्तिरपि मिष्टफलदायिनी सम्पद्यते, तथाकरणे प्रतिपक्षा श्रप्यनुकूलतां भजन्ति, ततोऽसदाचरणमनिष्टोदर्कमिति भयं मा शङ्कस्त्र, चौर्येकरतचेतसामपि सहायिनोमीलन्ति तर्हिनिगृहा5गृहप्रभवो वयं किञ्चिदपि किं न करिष्यामः ९ कियन्मात्रमिदंकार्य ? गोष्पदमात्रमिदंमन्ये, राजन् ? अस्मिन्कर्मणिकाऽपि चिन्ता भवता न कर्त्तव्या, इति मदुक्तिनिशम्य भूपतिनाऽहं भणितः, मन्त्रिन् ? कूटकर्मणि मे मतिर्न प्रसरति, तुभ्यंयद्रोचते तत्कुरुष्व, येन यादृग्विधंबीजमुप्यते तादृशंफलंतेन लभ्यते, नहि बब्बूलबीजे समवरोपिते सहकारफलं संपद्यते, अतोऽस्मिन्विषये स्थातुमनेच्छामि, स्वार्थसिद्धिसमीहया तत्त्ववित्कोऽनर्थसार्थनिषेवते ? अनभ्यस्त समयास्तु स्वार्थसमीहमानाः कृत्याकृत्यं न विदन्ति, अतएव तद्विवेकविकलाः किं न कुर्वन्ति ? यदुक्तम् — पदसत्यं वदेन्मर्त्यो - यद्वाऽसत्यश्च सेवते । यद्गच्छति विदेशश्च तत्सर्वं स्वार्थसिद्धये ॥ १ ॥ इत्थमावयोर्विवादे जायमाने मकरध्वजमन्त्रिणः समागत्य योजिताञ्जलयः प्रोचुः पार्थिव १ इयन्तोवासरा वार्चाला पेनैव मुधाऽस्माभिर्गमिताः, साम्प्रतमपि त्वं विचारवारिधौ निमनोदृश्य से, न कोऽप्यस्माकंप्रत्युत्तरोदीयते, महाशय ? युष्मदनिच्छाचेहात्प्रीतिर्न भविष्यति, पुनरस्माकमेकं वचनं शृणु, यदि रोचतेतुभ्यं तर्हि तथैव त्वया विधीयतां नास्माकमाग्रहः । भवत्सूनु For Private And Personal Use Only Acharya Shri Kailassagarsun Gyanmandir 80K•-**-+60++***++++
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy