SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ** 2018- 69 www.kobatirth.org संप्रधार्य तनन्दनं भूगृहवासिनंचकार यथोदितमपि भानुमन्तं न विवेद सः । रत्नभूमौ मणिरिव निःशेषोपचारपरिकरितः सोऽर्भकस्तत्रस्थितः प्रतिवासरंबवृधे विदिततद्वृत्तान्ताः पौरजना राजसुतविलोकने जातकौतुका अप्रमितप्रमोदमावहमाना गृहीतप्राभृता नृपौकसि समाजग्मुः, सभास्थानस्थितं महीपतिप्रणम्य यथार्हस्थानस्थितेषु तेषु कुमारदर्शनोत्कण्ठितेषु मयाऽवादि, निजोरुतेजमा दिवाकरप्रकाशनिर्भर्त्सयन् पुरुहूतपोतमपि स्वरूपसंपश्या लघयन्, जगञ्जन तिलकलीलांकलयन् चामीकरचारुमूर्त्तिर्जातमात्रेण प्रशमितोभयभीतिरयं राजकुमारोवरिवारविनाश को मित्रपक्ष विवर्द्धनो विलमतिसाम्यतं भूमिगृहस्थितः यस्य रूपलावण्यं समीक्ष्य तदमहमानः पञ्चसाय कोऽनङ्गभावमियिवानिव विधातुरिमं कुमारंनिर्मातुः शिल्पकला कौशल्यं सान्वर्थ मजनि, श्रस्मिन्नरेन्द्रनन्दने भुवनानन्ददायके निरीक्षिते किञ्चिदपि दर्शनीयं नावशिष्यते श्रतोऽस्मिन् कुमारे कस्यचिद् दृष्टिनिक्षेपो मा भूदिति वयसा बालोऽप्यबालोगुणसंपन्याऽसौ भूमिगृहाद्बहिर्न निष्कास्यते, यतोऽखिलदेहिनां हितकाङ्क्षिणो न भवन्ति सर्वत्र. यतचोक्तम् — शैले शैले न माणिक्यं, मौक्तिक न गजे गजे । साधवो नहि सर्वत्र, चन्दनं न वने वने ॥ १ ॥ सौकुमारोघरागृहे तिष्ठ भेव धात्र्यादिपरिजन सेवितः शुक्लपक्षसमाश्रयन्निशाकर इव प्रत्यहं कलाः कलयति, यतः - दिवसे दिवसे पुष्टिं धारयत्येव बालकः । विशेषेणोपचारा हि सर्वसम्पत्तिकारकाः ॥ १ ॥ इत्थं सुगुप्तमन्त्रा वयं सर्वे नृपाज्ञया देशान्तरादागच्छतः कुमारदर्शनोत्सुकान्सुविहितजनान्पूर्वोक्तक्रमेण समतोपयाम, अथैवमन्यलोका अपि तथोद्बोधिताः सत्यमन्वाना अतीव प्रमुदिताः पौरैः समं तत्प्रशंसां चक्रुः तथैव प्रोचुः नृपान्वयनभोमणिरसौक| मारविक्रमः कुमारोराज्यधुरांवच्यति, तदेयंभूभामिनी समासादितनवभर्तृकाऽधिकतरंविलसिष्यति, अस्माकंचिरसंचितप्रभूतसुकृ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir 41-5613 *++**
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy