SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रम् ॥ * ॥ ५३ ॥ ******* www.kobatirth.org नृपेण विज्ञातमसतिपुत्रे कुष्ठ्यपि वर इति संप्रधार्य देवीवचनंस्त्रीचकार ततोदेवी निजस्थानमगमत् । तपोऽवधौ पूर्णे देव्यनुष्ठानं समाप्य प्रमोदमापन्नो भूधवः कनकवतीमाञ्चवरप्राप्तिव्यतिकरमची कथत् । मयाऽपि नरेन्द्रः प्रोत्साहितः, प्रभो ? सम्यगाराधितधर्मप्रभावेण सर्वभव्यं भविष्यति, जाते सूनौ कुष्ठविनाशनोपायास्तु सुलभाः, इति मदुक्तिमाकर्ण्य सप्रिया कनकबती मुमुदेतराम् । अथ तस्यामेव क्षणदायांसुखसुप्ताया राज्याः कुक्षौ कश्चिञ्जीवो गर्भश्वनावतीर्णः, ततःप्रभृति निरतिशयानन्दमेदुरमान सोमानवेन्द्रः ससवांमहिषीं भूमिगृहे स्थापयित्वा गर्भभृत्यामकारयत् यतोलुब्धानांसम्पत्तिर्भूगृहस्थितैव रक्ष्यते, प्रतिवेलंनरेन्द्रः प्रियासखीराहतस्तद्वृत्तान्तंपृच्छतिस्म, क्रमेण नृपतिना संपादितगर्भदोहदा सा गर्भसमये पूर्णे पुत्रमजीजनत् ततोनिवेदितपुत्रजन्मने शुद्धान्तचराय सुतजन्महर्षितो नरेन्द्रो निजाङ्गलग्रंवसनाभरणादिकंवितीर्य तं विसर्जयामास, अथ हर्षनिर्भरमानसोभूपतिस्तजन्ममहोत्सवंनिजविभवानुसारेण प्रावर्त्तयत्, सर्वस्मिन्नगरे सद्योध्वजतोरणाङ्किता गृहाट्टश्रेणयोजनमानसानि विलोभयामासुः, विहितमनोहरनेपथ्यानि युवतिवृन्दानि प्रतिस्थानंधवलमङ्गलानि सप्रमोदंगायन्तिस्म, राज्याः पुत्रप्रभूतिरजायतेति सर्वत्र प्रसिद्धिर्जाता, पौरजनास्तद्वातीसमाकर्ण्य घनागमे कदम्बा इव भृशंप्रमुदिता जज्ञिरे, ततोऽहमहमिकया समन्ततोव्रजन्तोविविघोपहारपाणयोजनवाता राजसद्मनि समाजग्मुः, अप्रमितप्रमोदविभ्रता भूपतिना शुभे दिने कनकध्वजेत्यभिधानंविदधे, परन्त्वा जन्मतः स कुष्ठदूषितोऽभवत् पूर्वकर्मणामुदयेनाभिषग्भिर्ये प्रत्युपचारा विहितास्ते सर्वे चारभूमावुप्तबीजानीव निष्फलतामगुः । मन्त्र तन्त्र दिनोऽपि कृतोपचारास्तस्मिन्निर्विद्या वभूवुः, भूपतिना विज्ञातं केनाऽप्युपायेनाय नर्भकानिरामयो न भविष्यति, पौरजना इमंव्यतिकरंज्ञः स्यन्ति चेद्देशान्तरेऽपीयं वार्त्ता प्रसरिष्यति, तेन कुष्ठिपुत्रंमाश्च जना मा हसन्त्विति For Private And Personal Use Only Acharya Shri Kaassagarsun Gyanmandr +40++***+++++++ द्वितीयोज्ञा | सेद्वितीयः सर्गः ॥ ।। ५३ ।।
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy