SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ भिप्रायेण चन्द्रेण विचिन्तितम् , केनाप्युपायेनायमस्मादुराग्रहानविरंस्थते, इतिसंप्रधार्य तेन निगदितम् , नरदेव ? चन्द्रराजेन किं कार्य भवताम् ! किमसिन्भूतले तादृशा अपरे नरवीरा न सन्ति ? यतस्तदपेचांकुरुध्वे, राजन्नाभापुर्या में निवास इति सत्यं जानीत, यदाभापतिना तव कार्य तत्कर्तुमहं समर्थोऽस्मि, तस्मात्सुखेन निवेद्यताम् । इति तदुक्तां गिरंनिशम्य भृशंमुदितः सिंहलराजोऽयमेवचन्द्रराजइतिविदित्वा सद्यो रोमाञ्चितवपुरभवत् , ततोहिंसकेनापि स भणितः, स्वामिन् ? इदानीं निश्चिन्तोभव, अयमाभापतिरस्मदीयचिन्तामुन्मूलयिष्यति, चन्द्रराजोयनजानाति तत्किमपि नास्ति, तस्मादिदानी लजांविहाय यत्कर्त्तव्यं तदस्मै निवेदय, यतोलज्जावतां कार्यसिद्धिन जायते, उक्तंच आहारे व्यवहारे च, त्यक्तलजः सुखी भवेत् । लजापाशमपाकृत्य, नीतितः सुखिनो जनाः॥१॥ अथ चन्द्रराजश्वेतसि व्यचिन्तयत् , किमिदंसचिवाधमोवदति ? तद्रहस्सं ज्ञातुमशक्यम् । तच्च मत्तःसेत्स्यति न वा ? किश्चाधुना पारवश्यं प्रपन्नोऽस्मि, इदंसर्व धूर्तयूथंमिलितम् , अतस्तद्वचनप्रपञ्चस्तुमया श्रोतव्यः. अन्यथा मे मुक्ति भविष्यति, इतिचिन्तारीमानसं चन्द्रराजंविदित्वा सिंहलराजोबभाषे, नररत्न ? मुधा विकल्पजाल मा कुरु, न वयंधूताः येनचा वञ्चयितुमस्माकमुपक्रमोभवेत् ? भवानेवंविपरीतशङ्काकथंकरोति ? परोपकारैकरसिकंपुमांसंकाचिदेव जननी जनयति, " परोपकाराय सतां विभूतय" इति परोपकृतिरेव परमतत्त्वम् , परोपकृतिनः पुनदुर्लभाः । यदुक्तम् द्वौ पुरुषो धरति धराऽथवा द्वाभ्यामपि धारिता धरणी । यः परकार्येपुरतो-यश्चोपकृतं हि जानाति ॥१॥ नराधीश ? गभस्तिमान्किमु प्रत्युपकारापेक्षया जगदिदमुद्योतयति ? ऋतुप्रभावाद्विविधफलपुष्पाणिददद्भयोऽवनिरुहेभ्यः For And Persone ly
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy