SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Achanach agus Gyan चंद्रराज- चरित्रम् ॥ प्रथमोबासे दशमः सर्गः॥ ॥४३॥ सुभगे ? तस्मात्तीर्थवन्दनं प्रथमं विधेयं सुधीभिः, यतः- कामितानिहि सिध्यन्ति, तीर्थवन्दनकारिणाम् । इहामुत्र सुखं यान्ति, देहिनस्तीर्थभाविताः ॥ १॥ देवा अपि नमस्यन्ति, तीर्थानि विमलान्यहो । केवलज्ञानिनो यत्र, भवन्ति मोक्षगामिनः॥२॥ इत्थं सिद्धाचलयात्रां भवभयक्षोभयित्रीं विनिर्दिश्य सत्वरं जिगमिषुर्वीरमती वर्मनि समायातं रैवतकं गिरिवरं प्रत्यचीकृत्य बभाषे, सुशीले ? रमणीयतरमिममुजयन्तं विलोक्य निजनेत्रसार्थकत्वमवाप्नुहि, अस्मिँस्तीर्थे राजुलभग श्रीमान्नेमिजिनेन्द्रो मुक्तिनधू वरीष्यति, इदं तीर्थमपि सिद्धाचलसमानमेव निगद्यते, अयं गिरिराजः सिद्धगिरेः पञ्चमं शिखर कीर्त्यते । अस्मिश्च सानुनि यत्र गजचरणोविलग्नस्तत्र गजपदनामाकुण्डः प्रसिद्धिं गतः। एवमनेकानि तीर्थानि प्रदर्शयन्ती वीरमत्यग्रे व्रजन्ती सर्वतश्चक्षुः प्रमार्य प्रोवाच, गुणावलि ? इमं जम्बूद्वीपं परितो वेष्टयित्वा वलयाकृतिर्लवणाब्धिर्विराजते । स च द्विलचयोजनविस्तृतस्तटप्रदेशादनुक्रमेणाधिकाऽधिकामगाधतां बिभर्ति, तथैव तजलमप्युन्नतिभावमावहति, मध्यभागे दशसहस्रयोजन यावत् सहस्रयोजनमगाधस्तत्र च वारिशिखा षोडशसहस्रयोजनमूलभागे समुच्छलति, तदुपरि क्रोशद्वयप्रमितं वेलाजलं वर्द्धते । अस्य चारोदधर्मध्यभागे चतुर्दिक्षु दशसहस्रयोजनमुखाः सहस्रयोजनस्थूलदलाः अगाधत्वे लचयोजनप्रमिताश्चत्वारः पातालकलशाः स्थिताः । तेभ्यो घनवाततनुवाता ऊर्ध्वगामिनो निःमरन्ति, तेन वारिशिखोच्चैः प्रसरति, तद्रोधनाय बहवो देवा दारुहस्तान् गृहीत्वा सदैव तिष्ठन्ति, इमे सर्वे भावाः शाश्वतिकाः प्रकीर्तिताः । एवं मिथो वार्ता कुर्वन्त्यौ श्वश्रूवध्वौ विमलापुरी निकषा जग्मतुः । सहकारकोटरस्थश्चन्द्रराजोऽपि सर्वसमृद्धिं विलोकमानः प्रमुदितमनास्तत्संगतिप्रभाव बहुमेने । ॥ ४३॥ For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy