________________
ShriMahavir JanArchanaKendra
Achar
गुणावलीराझ्या तत्र नवपल्लवकुसुमितं सुरपतिसेवितं नन्दनवनमिव मनोहरमेकमुपवनं ददृशे, परमप्रमोदं च मेने । चन्द्रोऽपि नारीचेष्टां निरीक्ष्य निजचेतसि चमत्कृति प्राप । अस्मिन्नुद्याने नवपद्धविता आम्रतरवः प्रतिस्थानं छायादानं वितरन्ति, पिचुमन्दकदम्बजम्युमुनिद्रुमतालतमालनागपुनागप्रियंगुमधुकन्यग्रोधादिपादपैर्विभूषितमिदमुपवनं समस्त जनश्लाघनीयं विद्यते, अन्यच नवमल्लिकाचम्पककेतकीकुन्दप्रफुचल्लीवृन्दं विविधसुगन्धवातेन दशदिशः सुरभीकरोति, प्रकम्पितसरोजावलिः पवनः सर्वतोनिर्ववौ । राहुभयाद्भीतं भूमिगतं ज्योतिर्मण्डलमिव विशदकुसुमवृन्दं सुखदं रेजे, शशाङ्कप्रभयाभ्राजमानः सरोनिकरः पूर्णनिशाकरभ्रमं जनयति, सितद्युतिकरसोदराम्बुसंभृतावाप्योविमलापुर्याः स्वकीयकान्तिप्रकरविलोकनाय मुकुराइव विभान्ति । | ततोऽत्यद्भुतस्वरूपा नगरीं विलोकयन्ती गुणावली भृशं मुमुदे, सा च नगरी निजसंपद्भिः कैलासरोहणाचलं हसतीव विलोक्यते, प्रकटितदीपश्रेणिभिः प्रासादैदीप्यमानां नगरी निरीक्ष्य गुणावली पृच्छतिस्म, मातः१ दीव्यवैभवा केयं गरीयसी नगरी पुरुहूतपुरी हसति ? वीरमती प्राह-इयमेव मनोरमा विमलापुरी, तावत्सहकारोऽम्बरतलाबीचैरवतीर्य बाह्योपवने स्थितः । ततः श्वश्रूवध्वौ तस्मादुत्तीर्य तां नगरी प्रतिजग्मतुः । चन्द्रराजोऽपि तत्कोटरानिःमृत्यालक्ष्यगमनस्तयोः पृष्ठे चलितः । विमातुरपूर्वमिदं विद्याबलं विलोकमानोऽप्ययं किञ्चिद्भयं न विवेद, विशेषविक्रमशालिनः सदैव निर्भयास्तिष्ठन्ति,
यतः-प्रतापोर्जितसचाना, भयशङ्का न विद्यते । न भयं भयमित्याहु-धर्मलोपो महाभयम् ॥१॥
अथ प्रमोदमेदुरमानसे श्वश्रूवध्वौ दत्ततालमग्रे जग्मतुः, नगरद्वारं समागतम् , उमे परितो वीचाश्चक्रतुः, नगरान्तःप्रविश्येतस्ततो गृहावीथिकात्रिकचतुष्कगजाश्वशालाधनेकपौरवैभवं गुणावली दर्शयन्ती वीरमती लग्नमण्डपं प्रस्थिता, तत्र हि
For Private And Personlige Only