________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३६ ) सर्वत्र सत्तया भाव्या, शुद्धाद्वैतस्य भावना । तया जागर्ति सद्देवो, देहस्थो भगवान् हरिः ॥३५०॥ सर्वत्र सत्तया भाव्या, शुद्धाद्वैतस्यभावना । तया जागर्ति देहस्थः, शङ्करो निर्गुणो जिनः ॥३५१॥ सर्वत्र भावना भाव्या, ह्येकाऽऽत्मनश्च सत्तया । अभेदब्रह्म जागति, रागद्वेषौ विना हृदि ॥३५२ ॥ द्वैतं हि रागरोषस्थं, निर्जितं येन योगिना । शुद्धाद्वैतः स विज्ञेयो, जिनो रामो हरिहरः॥ ३५३ ॥ एकेश्वरो हृदि व्यक्तो, निजाऽऽत्मा दृश्यते प्रभुः । देहसृष्टेः प्रकर्ताऽपि, चाकर्ता ब्रह्मभावतः ॥ ३५४ ॥ दर्शनज्ञानचारित्र,-विशिष्टोऽनादि कालतः। श्रात्मैव कर्मनाशात्स, भवेन्नारायणः प्रभुः ॥ ३५५ ॥ तात्विकज्ञानरूपा न, शुद्धाद्वैतादिभावना । सा च चित्तविशुद्ध्यर्थ, भावनात्वौपचारिकी ॥३५६॥ औपचारिककर्तृत्वं, प्रभोः कर्तृत्वभावना । भाव्या चित्तविशुद्ध्यर्थ, विचित्ररुचिधारिभिः ।३५७। शुद्धधर्मस्य कर्ता स, हर्ता मोहादिकर्मणाम् । कर्ता हर्ता ह्यपेक्षात, श्रात्मैव ज्ञायते जिनैः ॥३५८॥ कर्ता हर्ता न कर्ताऽस्ति, हर्ता न च विलक्षणः । सर्वस्मिन्नपिभिन्नः स, सर्वतोऽलक्ष्यरूपवान् ॥३५॥
For Private And Personal Use Only