________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३५) स्पर्शादिसुखविश्वास, आत्मसुखेन नश्यति । आत्मसुखस्य विश्वासा, स्थैर्यमाऽऽत्मनिजायते॥३४०॥ अात्मसुखस्य विश्वासी, भव !! कामं विनाशय भवे मुक्तौ च निष्कामो, ब्रह्मानन्दं समश्नुते ॥३४१॥ अरूपी त्वं स्वयं ब्रह्म, शुद्धाऽऽत्मासि स्वसत्तया । अपदस्य पदं नास्ति, शब्दातीतो निरञ्जनः॥ ३४२॥ शब्दब्रह्मप्रदक्षत्वं, दक्षत्वं न निजाऽऽत्मनः व्यर्थं शास्त्रश्रमस्तस्य, हजागलस्तनो यथा ॥३४३॥
आत्मसुखं विना विश्व,-लोका अशान्तिधारिणः । किञ्चित्सुखं न विश्वस्थ,-लोकानां भोगतोऽपि वै ॥३४४॥ श्रात्माऽऽहारश्चिदानन्दो, देहाऽऽहारश्च पुद्गलम् । चित्ताहारो विचारश्च, वाण्याहारःसुभाषणम् ॥३४५॥
आत्मरूपेण संजीव्य, ब्रह्माऽऽहारं कुरुष्व भोः। रागद्वेषौविना देह,-जीवनं कुरु पुद्गलैः ॥ ३४६ ॥ सात्त्विकाऽऽहारतः सत्त्वं, सत्त्वाज्ज्ञानं प्रजायते । सर्वकामस्य रोधेन, सात्त्विकमुच्यते तपः ।। ३४७ ॥ सात्त्विकी जायते तृप्ति,-राऽऽत्मनो भक्तिसेवनात् । जायते हि परातृप्ति,-राऽऽत्मनो ब्रह्मभोगतः ॥३४८॥
आत्मशुद्धिकरी भाव्या, सर्वत्र ब्रह्मभावना । ब्रह्मभावनया नश्ये, काममोहस्य वासना ॥ ३४६ ॥
For Private And Personal Use Only