________________
२०५
तिलकमञ्जरी। प्रतिक्षणमुद्धरैर्गुणध्वनिभिरज्ञायत धनुष्मतामिषुव्यापारः, शस्त्रशिखिकणद्योतेन पदमदीयत प्रचलितैः प्रत्य: रिपदातिभिः, अविदितात्मीयपरविभागेन व्यलम्ब्यत मुहूर्तमुद्भूर्णहेतिनापि सुभटलोकेन, प्रभूतपिशिताभ्यवहारजनिततीव्रोदन्येन कर्दमप्रायमपीयत क्षतजापगाम्बु कौणपगणेन [झ॥
___ एवं च भीषणाबद्धतुमुले कुतूहलोत्तालकालदूताकुलितदशदिशि ऋव्यादकुलविलुप्यमानवीरलोके नृत्यत्परेतपरिषदि कृतान्तमहोत्सव इव निर्भरं प्रवृत्ते समरसंरम्भे क्षीयमाणेषु क्षितिपतिषु निपतत्सु पादातेषु सीदत्सु सादिषु ब्रजत्सु विधुरतामाधोरणेषु प्रहारविकलकायेष्वितस्ततः परिस्खलत्सु शून्यासनेषु सप्तिषु स्फुरत्कृपाणचक्रत्रिशूलकार्मुकप्रायपहरणदुरालोकायामनेकशवमुण्डमालामालितवपुषि चण्डिकायामिव रूपपरिवर्तेन कृतसंनिधावुपलक्ष्यमाणायां क्षितावमर्षमय इव क्रौर्यमय इव वैरमय इव व्याजमय इव हिंसामय इव विभाव्यमाने जगति त्रिभागशेषस्थितौ त्रियामायाममर्षगतमरणशङ्कानिरङ्कुशप्रवृत्तिभिरिलोकैरप्रथमिकया
टिप्पनकम्-उदन्या-तृषा । कौणपा:-राक्षसाः [स] । अन्यादाः-राक्षसाः । परेताः-पिशाचाः [अ]।
क्षणे क्षणे, उद्धुरैः उच्चैः, गुणध्वनिभिः आकृष्टमौवींशब्दैः, धनुष्मतां धनुर्धारिणाम् , इषुव्यापारः बाणविक्षेपात्मको व्यापारः
परः, अज्ञायत ज्ञायते स्म । प्रचलितः प्रस्थितैः, प्रत्यरिपदातिभिः उपस्थितशत्रुपदगामिसैनिकैः, शस्त्रशिखिकणद्योतेन शस्त्रशिखिनः-खशादिरूपानेः, कणानां-स्फुलिशानाम् , योतेन-प्रकाशेन, पदं चरणम् , अदीयत आरोप्यते स्म।उद्गूर्णहेतिनापि उद्यतयाणेनापि, सुभटलोकेन सुयोधजनेन, अविदितात्मीयपरविभागेन अविदितः-अप्रतीतः, आत्मीयाना-खजनानाम् , परेषाम्-अनात्मीयजनानाम् , शत्रुजनानामिति यावत् , विभागः-पार्थक्यं येन तादृशेन सता, मुहूर्त क्षणम् , व्यलम्बत बाणविक्षेपे क्लिम्बः कृतः । प्रभूतपिशिताभ्यवहारजनिततीवोदन्येन प्रभूतस्य प्रचुरस्य, पिशितस्य-मांसस्य, अभ्यवहारेण-भक्षणेन, जनिता-उत्पन्ना, तीव्रा-दुःसहा, उदन्या-पिपासा यस्य तादृशेन, कौणपगणेन राक्षसगणेन, कर्दमप्राय पङ्कमयम् , क्षतजापगाम्बु रुधिरनदीजलम् , अपीयत पीयते स्म [ झ] ॥ एवम् अनेन प्रकारेग, भीषणावद्धतुमुले भीषणं-भयानकम् , आवद्ध-समन्तात् प्रवर्तितम् , तुमुलं-सान्द्रयुद्धं यस्मिंस्तादृशे; पुनः कुतूहलोत्तालकालदूताकुलितदशदिशि कुतूहलेन-औत्सुक्येन, उत्तालैः-उद्धतैः, कालदूतैः यमदूतैः, आकुळिताः-आक्रान्ताः, दश दिशो यस्मिंस्तादृशे पुनः ऋव्यादकुलविलुप्यमानवीरलोके ऋव्यादानां-राक्षसानाम् , कुलेन-समूहेन, विलुप्यमानाः-मांसार्थमुत्कृत्यमानाः, वीरलोकाः-युद्धमृतवीरपुरुषा यस्मिंस्तादृशे; पुनः नृत्यत्परेतपरिषदि नृत्यन्ती-हर्षेणोच्छलन्ती, परेताना-व्यन्तरविशेषाणाम् , परिषत्-सभा समूह इति यावत् , यस्मिंस्तादृशे; पुनः कृतान्तमहोत्सव इव यमराजमहोत्सव इव, निर्भरम् अत्यन्तम् , प्रवृत्ते प्रारब्धे, समरसंरम्भे संग्रामसंघर्षे, क्षितिपतिषु नृपेषु, क्षीयमाणेषु म्रियमाणेषुः पुनः पदातिषु पदगामिसैनिकसमूहेषु, निपतत्सु अधःस्खलत्सुः पुनः सादिषु अश्वारोहिसैनिकेषु, सीदत्सु व्यथमानेषुः पुनः आधोरणेषुहस्तिपकेषु, विधुरतां लेशम् , बजत्सु अनुभवत्सुः पुनःप्रहारविकलकायेषु प्रहारेण-खशाघातेन,विकल:भमः, कायः-शरीरं येषां तादृशेषु, शून्यासनेषु पर्याणादिरहितेषु, सतिषु अश्वेषु, इतस्ततः अत्र तत्र, परिस्खलत्सुपरिपतत्सुः पुनःस्फुरत्कृपाणची कप्रायपहरणदुरालोकायां स्फुरन्ति-उजवलन्ति, यानि कृपाणचक्रत्रिशूलकार्मुकाणि, कृपाणः-खड्गः, चक्रं चक्राकारोऽस्त्रविशेषः, त्रिशूलं-यस्य शूलाकाराणि त्रीणि शिखाग्राणि भवन्ति तादृगनविशेषः, कार्मुकं नाम-धनुः, तत्प्रायः-तत्प्रचुरैः, प्रहरणैः-अस्त्रैः, दुराकोकायां-दुःखेन दृश्यायाम् , च पुनः, अनेकशवमुण्डमालामालितवपुषि अनेकेषां शवानां-मृतकानाम् , या मुण्डमाला-मस्तकस्थितमाला, पक्षे मस्तकपद्धिः, तया मालित-शोभितम् , वपुः-शरीरं यस्यास्तादृश्याम् , क्षितौ पृथिव्याम् , रूपपरिवर्तन खरूपपरिवर्तनेन, कृतसन्निधौ कृतसमीपावस्थानायाम् , चण्डिकायामिव तदाख्यदेव्यामिव, उपलक्ष्यमाणायां प्रतीयमानायां सत्याम् ; पुनः जगति, अमर्षमय इव क्रोधमय इव, पुनः क्रौर्यमय इव क्रूरतामय इव, पुनः वैरमय इव शात्रवमय इव, पुनः व्याजमय इव पारस्परिकच्छलमय इव, पुनः हिंसामय इव हिंसाप्रचुर इव, विभाव्यमाने प्रतीयमाने सति; पुनः त्रियामायां रात्रौ, त्रिभागशेषस्थितौ त्रिभागरूपा