________________
२०४
टिप्पनक-परागविवृतिसंवलिता समरसंघट्टः [छ। सर्वतश्च गात्रसंघट्टरणितघण्टानामरिद्विपावलोकनक्रोधधावितानामिभपतीनां हितेन, प्रतिबलाश्वदर्शनक्षुभितानां च वाजिनां हृषितेन, हर्षोत्तालसूतताडिततुरङ्गबद्धरंहसां च स्यन्दनानां चीत्कृतेन, सकोपधानुष्कनिर्दयाच्छोटितज्यानां च चापयष्टीनां टङ्कत्तेन, खरखुरप्रदलितदण्डानां च पर्यस्यतां रथकेतनानां कडत्कारेण, निष्ठुरधनुर्यनिष्ठ्यूतानां च निर्गच्छतां नाराचानां सूत्कारेण, वेगोह्यमानविवशवेतालकोलाहलघनेन च रुधिरापगानां धूत्कारेण, प्रतिरसितसंभृतेन समरभेरीणां भाङ्कारेण, निर्भराध्मातसकलदिक्चक्रवालं साक्रन्दमिव साट्टहासमिव सास्फोटनरवमिव ब्रह्माण्डमभवत् [ज] । अनन्तरं च सेनाभराक्रान्तमेदिनीमूर्छान्धकाराकृतिः कवलयितुमिव सशैलद्वीपकाननं त्रिभुवनमुल्ललास लासकस्तरुणजलधरपटलशङ्कया विमुक्तकलकेकाविलापानां वनकलापिनामाब्रह्मलोकमेणाङ्कमण्डलाकाण्डसँहिकेयो रजःसंघातः ।
टिप्पनकम्बृ हितं-जगर्जितम् । सूतः-सारथिः । पर्यस्यतां पतताम् । प्रतिरसितं-प्रतिशब्दः [ज] । लासका नर्तकः । एणाङ्क:-चन्द्रः ।
व सर्वत्रोत्प्रेक्षा [ छ ] 1 सर्वतः परितः, गात्रसंघट्टरणितघण्टानां गात्रसंघद्धेन-गात्राणां-शरीराणां परस्परसंघर्षण, रणिता-ध्वनिता, घण्टा येषां तादृशानाम् , पुनः अरिद्विपावलोकनक्रोधधावितानाम् अरिद्विपानां-शत्रुगजानाम् , अवलोकनेन-दर्शनेन, यः क्रोधस्तेन धावितानां-शीघ्रं गतानाम् , इभपतीनां महागजानाम् , बृंहितेन गर्जितेन; च पुनः, प्रतिबलाश्वदर्शनक्षुभितानां प्रतिबलाश्वदर्शनेन-प्रतिद्वन्द्विसैन्याश्वदर्शनेन, क्षुभिताना-सञ्चलितानाम् , वाजिनाम्अश्वानाम् , हेषितेन-द्वेषाख्यशब्देन; च पुनः, हर्षोत्तालसूतताडिततुरङ्गबद्धरंहसां हर्षेण उत्तालाः-उद्वेलिताः, ये सूताः-सारथयः, तैर्बद्धं-ग्राहितम् , रंहः-वेगो येषां तादृशानाम्, स्यन्दनानां रथानाम् , चीत्कृतेन चीत्कारशब्देन; च पुनः, सकोपधानुष्कनिर्दयाच्छोटितज्यानां सकोपा:-क्रुद्धाः, ये धानुष्का:-धनुर्धारिणः, तैः, निर्दयम्-अत्यन्तं यथा स्यात् तथा, आच्छोटिता-आकृष्टा, ज्या-मौवी, रज्जुरिति यावत् , यासां तादृशीनाम् , चापयष्टीनां धनुर्यष्टीनाम् , टङ्कतेन टकारेण; च पुनः, पर्यस्यताम्-अधःपतताम् , पुनः खरखुरप्रदलितदण्डानां खराणां-गर्दभानाम् , खुरैः-शफैः, दलितानां-विदारितानाम् , रथकेतनानां रथवजानाम् , कडत्कारेण ध्वनिविशेषेण; च पुनः, निष्ठुरधनुर्यन्त्रनिष्ठयूतानां निष्ठुरेण-दृढेन, धनुर्यन्त्रेण, निष्ठयूताना-प्रक्षिप्तानाम् , अत एव निर्गच्छतां ततो निष्कामताम् , नाराचानां वाणानाम् , सूत्कारेण ध्वनिविशेषेण; च पुनः, वेगोह्यमानविघशवेतालकोलाहलघनेन वेगेन उह्यमानानांवहनकर्मतामापद्यमानानाम् , विवशाना-रुधिरपानपरवशानाम् , वेतालानां-भूतविशेषाणाम् , यः कोलाहलस्तेन, घनेन-निबिडेन, रुधिरापगानां रुधिरनदीनाम् , घूत्कारेण ध्वनिविशेषेण; पुनः समरभेरीणां संग्रामढकानाम् , प्रतिरसितसम्भृतेन प्रतिध्वनिपूर्णेन, भाङ्कारेण ध्वनिविशेषेण, निर्भराध्मातसकलदिक्चक्रवालं निर्भरम्-अत्यन्तं यथा स्यात् तथा, आध्मातं-शब्दितम् , सकलानां-सर्वासां दिशाम् , चक्रवालं-मण्डलं यस्मिंस्तादृशम् , ब्रह्माण्डं चतुर्दशभुवनाद्यात्मकं जगत् , साक्रन्दमिव सविलापमित्र, साट्टहासमिव महाहाससहितमिव, सास्फोटनरवमिव, आस्फोटनरवेण-पर्वतावदारणध्वनिना सहितमिव, अभवत् जातम् [ज]। च पुनः, अनन्तरं ब्रह्माण्डस्योक्तस्थित्यनन्तरम् , सेनाभराकान्तमेदिनीमून्धिकाराकृतिः सेनाभरेण-सैन्यभारेण, आक्रान्तायाः, आकुलितायाः, मेदिन्या:-पृथिव्याः, यो मूर्छान्धकारः-मू रूपान्धकारः, सा आकृतिः-आकारो यस्य तादृशः, रजःसङ्घातः धूलिसमूहः, सशैलद्वीपकाननं शैलाःपर्वताः, द्वीपाः-जलमध्यस्थलप्रदेशाः, काननानि-वनानि, तैः सहितम् , त्रिभुवनम् भुवनत्रयम्, कवलयितुमिव भक्षयितुमिव, उल्ललास उच्छलति स्म । कीदृशः? तरुणजलधरपटलशड्या तरुणा:-अभिनवा ये, जलधरा:-मेषाः, तेषां यत् पटलं-समूहः, तस्य शङ्कया-संशयेन, विमुक्तकलकेकाविलापानां विमुक्तः-मुखानिर्गमितः, कल:-मधुरः, केकाविलापः-केकाख्यशब्दविशेषेण विलपनं यैस्तादृशानाम्, वनकलापिनां वनमयूराणाम्, लासक: नर्तकः, पुनः आब्रह्मलोकं ब्रह्मलोकमभिव्याप्य, एणाङ्कमण्डले चन्द्रबिम्बे, अकाण्डसैहिकेयः अकालराहुखरूपः । प्रतिक्षणं