SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ टिप्पनक-परागविवृतिसंवलिता प्रभात एव प्रस्थितस्य तारकासार्थस्य चरणोत्थापितो रेणुविसर इव धूसरारुणो नभः सरणिमरुणदरुणालोकः [अ] 1 ततः क्रमेण रञ्जिताम्बरे तुहिनकरविरहविदलितविभावरीहृदयरुधिर इव निपतति धरण्यामरुणरागे, तिमिरकरिरेचितेषु पांशुतल्येष्विव स्तोक स्तोकमुच्चसत्सु दिग्भागेषु, अपरभागसंक्रान्तनक्षत्रभारावर्जित इव पूर्वभागमतिदूरमुन्नमयति व्योम्नि, विनिद्रशकुनिकुलबद्धकोलाहलासु जलनिधिप्रबोधमङ्गलानीव गायन्तीषु वेलावनावलीषु, मार्गशैलशृङ्गकृतविश्रामेष्याहारान्वेषणाय द्वीपान्तराणि प्रस्थितेषु समुद्रोदरनिवासिषु विहङ्गेषु, पङ्कमलिनतनुषु कौपीनमात्रकर्पटावरणेष्वरुणलुण्टिततिमिरपुरलोकेष्विव समाश्रयत्सु वेलानदीपुलिनानि जालि. केषु, मुहुः स्पृष्टशैवलप्रताने मुहुरामृष्टचन्द्रकान्तमणिदृषदि मुहुर्मुदितफेनपटले मुहुराश्लिष्टसलिलवीचिसंचये संचरति वडवामुखानलसंपर्कजाततीव्रसंताप इव मन्दमन्दमौदन्वते मरुति, मुक्तमसृणमणितटीशय्येषु सवि ___ टिप्पनकम्-रेचितं-रिक्तम् । अभ्रमुः-ऐरावणजाया । वामनः-पश्चिमा शा]करी, दिक्षिणाशाकरीति बहवः, तस्यैवात्रौचित्यात् ] [2] यस्मिंस्तारशस्य, पक्षे चलिताः, सरोहिणीका:-रोहिणीभिः-धेनुभिः सहिताः, वृषाः-बलिवर्दाः प्रस्थान क्रियाविशिष्टे यस्मिन् सति तादृशस्य, पुनः कापि क्वापि कस्मिंश्चित् कस्मिंश्चित् प्रदेशे, विभाव्यमानतुलाधनुषः विभाव्यमाना-लक्ष्यमाणा, तुलातुलाराशिः, धनुः-धनराशिश्च यस्मिंस्तादृशस्य, पक्षे विभाव्यमानाः, तुलाः-मानानि तोलनदण्डा वा, धषि-कार्मुकाणि, प्रस्थान क्रियाविशिष्टे यस्मिन् सति तादृशस्य, पुनः प्रभात एव प्रातरेव, प्रस्थितस्य कृतप्रयाणस्य, तारकासार्थस्य तारागणस्य, चरणोत्थापितः चरणोत्क्षिप्तः, रेणुविसर इव धूलिराशिरिव, धूसरारुणः किश्चित्पाण्डुरक्तवर्णः, अरुणालोका सूर्यप्रकाशः, नभःसरणिम् आकाशमार्गम् , अरुणत् रुद्धवान् , व्याप्तवानित्यर्थः [अ]। ततः तदनन्तरं, किश्चिदुपशान्तचिन्तासंज्वरः किञ्चिन्निवृत्तचिन्तासन्तापः सन् , पुरस्तात् अने, चक्षुः नेत्रम्, अक्षिपं व्यापारितवानहम् , कस्मिन् कीदृशे सति ? क्रमेण शनैः, रञ्जिताम्बरे रक्तीकृतगगनमण्डले, अरुणरागे सूर्यबिम्बसगे, तुहिनकरविरहविदलितविभावरीहृदयरुधिर इव तुहिनकरस्य-शीतकिरणस्य, चन्द्ररूपनायकस्येत्यर्थः, विरहेण-विश्लेषण, विदलित-विदीर्ग, यत् , विभावर्याः-रात्रिरूपनायिकायाः, हृदयं, तस्य रुधिर इव शोणित इव, धरण्यां भूमौ, निपतति अवतरति सति । पुनः पांशुतल्पेष्विव धूलिमयशय्यास्विच, तिमिरकरिरेचितेषु अन्धकाररूपहस्तिनोज्झितेषु, दिग्भागेषु, स्तोकं स्तोक किञ्चित् किश्चित् , उच्छुसत्सु मुखमारुतमुद्रमत्सु । पुनः अपरभागसंक्रान्तनक्षत्रभारावर्जित इव अपरभागेपश्चिमभागे, संक्रान्तानि-संलग्नानि, यानि नक्षत्राणि-तारकाः, तद्भारेण-तद्रूत्वेन, आवर्जित इव-अवनत इवेत्युत्प्रेक्षा, व्योनि आकाशे, पूर्वभागम् , अतिदरम् अत्यन्तदूरम् , उन्नमयति उत्क्षिपति सति । पुनः विनिद्रशकुनिकुलबद्धकोलाहलासु विनिद्राणा-भननिद्राणां, शकुनीनां-पक्षिणां, कुलेन-पुखेन, बद्धः कृतः, कोलाहल:-कलकलो यासु तादृशीषु वेलावनावलीषु तटवर्तिवनपतिष, जलनिधिप्रबोधमङ्गलानि समुद्र जागरणकालि कमङ्गलानि, गायन्तीषु इवेत्युत्प्रेक्षा। पुनः मार्गशैलशृङ्गकृतविश्रामेषु मार्गस्थपर्वतशिखरविश्रान्तेषु, समुद्रोदरनिवासिषु समुदमध्यवास्तव्येषु, विहङ्गेषु पक्षिषु, आहारान्वेषणाय खभक्ष्यवस्तुगवेषणाय, द्वीपान्तराणि अन्यद्वीपान् , प्रस्थितेषु गन्तुं प्रवृत्तेषु सत्सु । पुनः पङ्कमलिनतनुषु कर्दमकलुषितकलेवरेषु, कौपीनमात्रकर्पटावरणेषु कौपीनमात्रं यत् कर्पट-पटखण्डः, तदेव आवरणं येषां तादृशेषु, जालिकेषु धीवरजातीयेषु, अरुणलुण्टिततिमिरपुरलोकेष्विव सूर्यापहृतान्ध कारपुरवासिजनेष्विव, वेलानदीपुलिनानि तटवर्तिनदीसैकतस्थलानि, समाश्रयत्सु निषेवमाणेषु । पुनः मुहुः असकृत् , स्पृष्टशैवलप्रताने संपृक्तजलतृणराशो, पुनः मुहुः अनेकवारम्, आमृष्टचन्द्रकान्तमणिदृषदि आमृष्टा-संस्पृष्टा, चन्द्रकान्तमणिरूपा दृषद्-प्रस्तरो येन तादृशि, पुनः मुहः वारंवारम् , मृदितफेनपटले मृदितं-त्रोटितं, फेनपटलं-समुद्रकफराशियेन ताशे, पुनः मुहः असकृत् , आश्लिष्टसलिलवीचिसंचये आश्लिष्टः-आलिङ्गितः, सलिलवीचीनां-जलतरङ्गाणा, सञ्चयःपुजो येन तादृशे, औदन्वते समुद्रसम्बन्धिनि, मरुति पवने, वडवामुखानलसम्पर्कजाततीव्रसन्ताप इव बडवायाः-समुद्रोदरवर्तिन्या अश्वायाः, यो मुखानल:-मुखाग्निः, वाडवानिरिति यावत् , तत्सम्पर्केण-तत्संयोगेन, जात:-उत्पन्नः,
SR No.008456
Book TitleTilakamanjiri Part 2
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy