SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी। ३१३ पुरुषाः । कथं च हृदयदाहलचितानुवृत्तीनामनुल्लङ्घनीयवचसां वृद्धबन्धूनामधोमुखेन सदसि सोढव्याः श्रवणपरुषा रोपतिरस्काराः, सर्वथा धिगू मां चापलोपहतमनात्मज्ञमुत्सृष्टाभिमानमसमीहितकारिणम् , अनेनाप्यदृष्ट. शिष्टव्यवहारेण सर्वदा प्राकृतलोकसहवासिना तारकेण तरल इति कुतूहुलीति क्रीडनशील इति संभावितम्' [झ] । इत्याद्यनल्पमनेकसंकल्पकवलितचित्तवृत्तेश्चिन्तयत एव मे जगाम परिणाममप्रतर्कितैव रजनिः । अर्ध्वकिरणरज्जुस्तम्बलम्बमानशशिविम्बनाङ्गरादपरदिग्भागयानपात्रादवततार सांयात्रिक इव कृताम्बरजलधियात्रः शनैः शनैरन्धकारः । किं वृथा नदसि, मथने यदि मया रत्नानि ते कक्षीकृतानि तदुरिक्षपैतदित्यवतार्य शिरसः पुरो मन्दरक्षितिभृता क्षिप्तमुत्तरीयक्षौममिव पिण्डीकृतमिन्दुमण्डलमाकुलाकुलप्रसारितोर्मिहस्तो जग्राह जलधिः । प्रमुख एव प्रवृत्तमेषस्य ततश्चलितसरोहिणीकवृषस्य कापि कापि विभाव्यमानतुलाधनुषः टिप्पनकम्- [प्रवृत्तमेषस्य मेषः-अजः, ] मेषराशिश्च, चलितसरोहिणीकवृषस्य एकत्र रोहिणी-नक्षत्रम् , वृषः -राशिः, अन्यत्र रोहिणी-सुरभिः, वृषः- गौः । विभाव्यमानतुलाधनुषः एकत्र तुला-धनुषी राशी, भन्यत्र तुला-प्रसिद्धैव, धनुश्च-कार्मुकम् []। याम मयेति शेषः, राज्यचिन्तकाः राज्यसंचालकाः, प्रधानपुरूषाः मश्रिजनाः, कथं केन प्रकारेण, प्रसादनीयाः अनुनेतव्याः। कीदृशाः? दुर्विनयजनितोद्वेगाः मदीयदुर्विनीततोत्पादितान्तःक्षोभाः, पुनः स्वतन्त्रः खेच्छाचारी, इति कृत्वा मत्वा, तूष्णीमेव किमप्यकथयित्वैव, समर्पितस्त्राधिकारमुद्राः प्रत्यर्पितस्वस्खाधिकारज्ञापकचिहविशेषाः । च पुनः, वृद्ध. बन्धूनां वयसा श्रेष्ठबन्धुजनानां, श्रवणपरुषाः कर्णकठोराः, रोषतिरस्काराः क्रोधप्रयुक्तानादरवाक्यानि, सदसि सभा. खेन अवनतवदनेन सता, मयेति शेषः, कथं केन प्रकारेण, सोढव्याः सड्नीयाः, कीदृशाम् ? हृदयदाहलवितानुवृत्तीनां हृदयदाहेन-अन्तस्तापेन, लविता-त्यक्ता, अनुवृत्तिः-अनुसरणं यस्तादृशानाम् , पुनः अनुल्लङ्घनीयवचसाम् अतिरस्करणीयवाक्यानाम् । चापलोपहतं चाञ्चल्यदूषितम्, पुनः अनात्मक्षम् आत्मपरिचयरहितम् , पुनः उत्सृष्टाभिमानं वक्तवाभिमानम् , पुनः असमीहितकारिणं स्वानभिमतकारिण, मां, सर्वथा सर्वप्रकारेण, धिक् निन्दा, अष्टशिष्टव्यवहारेण अपरिचितशिष्टाचारेण, सर्वदा सर्वकाले, प्राकृतलोकसहवासिना नीचजनसंसर्गिणा, अनेन प्रत्यक्षवर्तिना, तारकेणापि, तरल: अयं चपल इति, पुनः कुतूहली अयं फलनिरपेक्षलोलुप इति, क्रीडनशील: अयं क्रीडाप्रकृतिक इति, सम्भावितम् उत्कटोक्तकोट्या शङ्कितम् [अ]। अनेकसंकल्पकवलितचित्तवृत्तेः भूरिभावनाक्रान्तमनोवृत्तेः, मे मम, इत्यादि अनुपदोक्तप्रभृतिकम् , अनल्पं प्रचुरं च, चिन्तयतः आलोचयतः सत एव, अप्रतकितैव अवितर्कितैव, रजनिः रात्रिः, परिणाम समाप्ति, जगाम प्राप 1 ऊर्ध्वकिरणरज्जुस्तम्बलम्बमानशशिबिम्बनाङ्गरात् ऊर्वात-उपरितनात् , किरणरूपरजुमयस्तम्बात् , लम्बमान-नमत्, शशिबिम्बरूपं-चन्द्रमण्डलात्मक, नागर यानपात्रावष्टम्भकशिला यस्य तादृशात् , अपरदिग्भागयानपात्रात पश्चिमदिग्भागरूपपोतात्, सांयात्रिक इव पोतवाणिगिव, कृताम्बरजलधियात्रः कृताकाशरूपसमुद्रयात्रः, अन्धकारः, शनैः शनैः मन्द मन्दम् , अवततार अधस्तादाजगाम । आकुलाकुलप्रसारितोमिहस्तः आकुलाकुर्ल-विशेषेण व्यग्रं यथा स्यात् तथा, प्रसारितः-विस्तारितः,कामरूप:तरजात्मकः, हस्तो येन तादृशः, जलधिः समुद्रः, इन्दुमण्डलं चन्द्रबिम्ब, जग्राह गृहीतवान् , कीरशमित्र ? 'किं किमर्थ, वृथा मुधा, नदसि जल्पसि, मथने विलोडनावसरे, ते तव सागरस्य, रत्नानि, यदि, मया मेरुणा, कक्षीकृतानि गृहीत्वा वस्त्राञ्चले गोपितानि, तत् तर्हि, एतद् प्रत्यक्षं दीयमानं पिण्डीकृतोत्तरीयक्षौममित्यर्थः, उत्क्षिप ऊर्वीभावेन विस्तारय' इति एवंधिया, शिरसः मस्तकाधोभागात् , अवतार्य अधः कृत्वा, मन्दरक्षितिभृता मेरुगिरिणा, क्षिप्त प्रक्षिप्तम् , पिण्डीकृतं पिण्डाकारतां नीतं, उत्तरीयक्षौममिव उत्तरीयकौशेयवस्नमिव । प्रमुख एव आदावेत्र, प्रवृत्तमेषस्य प्रवृत्तःगन्तुमुद्यतः, मेषः-मेषराशियस्मिंस्तादृशस्य, पक्षे प्रवृत्ताः-गन्तुमुद्यताः, मेषाः-अजाः प्रस्थानक्रियाविशिष्टे यस्मिन् सति तादृशस्य, ततः तदनन्तरं, चलितसरोहिणीकवृषस्य चलितः-प्रस्थितः, सरोहिणीक:-रोहिणीनक्षत्रेण सहितः, वृषः-वृषराशि ४० तिलक.
SR No.008456
Book TitleTilakamanjiri Part 2
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy