SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी। २६९ करेषु, पुरोनिविष्टरन्धनदक्षदासीसंधुक्षितानलासु ज्वलन्तीषु सर्वतः कथनवाचालस्थालीपरम्परापरिकरितचूलासु प्राङ्गणचुल्लीषु [ख], समकालशिथिलितरोमन्थलीलं सहेलमुत्थाय चरति सति पुञ्जितमग्रतः प्रयत्नसंगृहीतं यवसमन्योऽन्यतुण्डताडनरगद्विषाणे विषाणिवृन्दे, प्रयतमनुष्यनिश्चलधृतोर्ध्वदण्डिकासु क्रमसमुत्पाट्यमानकीलपरिपाटिविषमसंकुच द्विस्तारासु चरममुक्तत निकाचतुष्टयच्युतावष्टम्भासु तिर्यक् पर्यस्यमानासु पटकुटीषु [ग], मुकुलितपटमण्डपे पिण्डीकृतकाण्डपटकप्रकटसामन्तान्तःपुरे दुष्टवाहनारोप्यमाणभयचटुलचेटीलोकविब्बोकाकृष्टविटचेतसि सहेलचलितसेनापतिसैन्यकोलाहलजनितजनकुतूहले संहृतपण्यविपणिवीथीवृथाभ्रमद्गृहीतमूल्य टिप्पनकम्-पर्यस्यमानासु पात्यमानासु [ग]। मुकुलित-संकोचितम् , काण्डपटकः-जवनिका, बिब्बोकःविलासः, कीकट:-दरिद्रः, निघसः-नीरणम्, [घ]। तेषु? सत्वरोत्थितगृहस्थनिर्दयाक्रोशकर्शितनिद्रेषु सत्वरं-शीघ्रम् , उत्थितानां--जागृतानां, गृहस्थानां-गृहवर्तिजनानां निर्दयाकोशेन-निष्ठुरकोलाहलेन तीबाहानेन वा, कर्शिता-क्षपिता, निद्रा येषां तादृशेषु, पुनः अतिकष्टमुक्तसंस्तरेषु अतिकष्टेन अत्यन्तक्लेशेन, मुक्तः-त्यक्तः, संस्तरः-शय्या यैस्तादृशेषु; पुनः प्राङ्गणचुल्लीषु प्राङ्गणस्थिताधिश्रयणीषु, ज्वलन्तीषु दीप्यमानासु, कीदृशीषु ! पुरोनिविष्टरन्धनदक्षदासीसन्धुक्षितानलासु पुरः-अग्रे, निविष्टया-उपविष्टया, रन्धनदक्षया-पाककुशलया, दास्या-कर्मकर्या, सन्धुक्षित:-प्रज्वलितः, अनल:-अग्निासु तारशीषु, पुनः सर्वतः सर्वभागेषु, क्वथनवाचालस्थालीपरम्परापरिकरितचूलासु कथनेन-अतिपाकेन, वाचालाभिः-शब्दायमानाभिः, स्थालीपरम्पराभिः-पाकभाण्डपतिभिः, परिकरिता-व्याप्ता, चूला-ऊर्श्वभागो यासां तादृशीषु [ख] पुनः विषाणिवृन्दे पशुसमूहे, अग्नतः अग्रे, पुजितं राशीकृतं, प्रयत्नसंगृहीतं प्रयाससश्चितं, यवसं घासं, सहेलं सकौतुकं यथा स्यात् तथा, उत्थाय, चरति खादति सति, कीदृशे ? समकालशिथिलितरोमन्थलीले समकालम्-एककालं, शिथिलिता-शिथिलीकृता, रोमन्थस्य-चर्वितस्याकृष्य पुनश्चर्वणस्य, लीला-क्रीडा येन तादृशे, पुनः अन्योऽन्यतुण्डताडनरणद्विषाणे अन्योऽन्यतुण्डताडनेन-परस्परमुखकृताभिघातेन, रणन्ति-शब्दायमानानि, विषाणानि यस्य तादृशे; पुनः पटकुटीषु वस्त्रमयगृहेषु, तिर्यक् कुटिलं यथा स्यात् तथा, पर्यस्यमानासु पात्यमानासु, उपसंहियमाणाखित्यर्थः, सतीषु, कीदृशीषु ? प्रयतमनुष्यनिश्चलधृतोर्वदण्डिकासु प्रयतेन-प्रयत्नवता, समाहितमनस्केनेत्यर्थः, मनुष्येण, निश्चल-दृढं यथा स्यात् तथा, धृता-गृहीता, ऊर्वदण्डिका-ऊर्ध्वयष्टिर्यासां तादृशीषु, पुनः क्रमसमुत्पाट्यमानकीलपरिपाटिविषमसंकुचद्विस्तारासु क्रमेण-पर्यायेग, समुत्पाव्यमानाभिः-समुद्धियमाणाभिः, कीलपरिपाटिभिः-शमुश्रेणिभिः, विषसम्-असमं यथा स्यात् तथा, संकुचन्-संकोचमासादयन् , विस्तारो-दैध्य यासां तादृशीषु, पुनः चरममुक्ततनिकाचतुष्टयच्युतावष्टम्भासु चरममुक्केन-सर्वतः पश्चाद्विश्लेषितेन, तन्यते-विस्तार्यते पटमण्डपो यया सा तनिका-कोणचतुष्टयावलम्बिनी रजुः, तचतुष्टयेन च्युतः-स्खलितः, निवृत्त इत्यर्थः, अवष्टम्भः-अवलम्बनं यासां तादृशीषु [ग], पुनः उर्वीगन्धर्वनगरे शून्याधिष्ठान-पुराकार-नीलपीतादिमेघरचनाविशेषो गन्धर्वनगरम् , उा-पृथिव्यां, न तु गगने, यद् गन्धर्वनगरं तद् उर्वी. गन्धर्वनगरं तस्मिंस्तथा, पृथिवीगतगन्धर्वनगरसदृशे इत्यर्थः, स्कन्धावारे सैन्यसन्निवेशे, सैन्यनगरे इत्यर्थः, अनुवेलं प्रतिक्षणम् , विरलतां अल्पताम् , ब्रजति प्राप्नुवति सति, कीदृशे स्कन्धावारे ? मुकुलितपटमण्डपे मुकुलिताःसंकुचिताः, पटमण्डपाः-वननिर्मितानि जनविश्रामस्थानानि यस्मिंस्तादृशे, पुनः पिण्डीकृतकाण्डपटकप्रकटसामन्तान्तःपुरे पिण्डीकृता:-सर्वतो वेष्टनेन पिण्डाकार प्रापिता ये काण्डपटका:-येषां संकोचनेन काण्डाकारो भवति तादृशाः पटविशेषाः, जवनिका इत्यर्थः, तैः प्रकट-प्रकटतां गतम् , सामन्तानाम्-आज्ञावर्तिक्षुद्रनृपाणाम् , अन्तःपुरं-वनितान्दं यसिस्वादशे, पुनः दुष्टवाहनारोप्यमाणभयचटलचेटीलोकबिब्बोकाकृष्टविटयेतसि दुष्टवाहने-अश्वतरादौ दुष्टावादी वा आरोप्यमाणानाम्-आरोह्यमाणानां, भयचटुलानां-भयसम्भ्रान्तानां, चेटीलोकानां-भृत्याजनानां, बिब्बोकेन-विलासेन, आकृष्टवशीकृतं, विटानां-जारपुरुषाणां, चेतः-हृदयं यस्मिंस्तादृशे, पुनः सहेलचलितसेनापतिसैन्यकोलाहलजनितजनकुतूहले सहेलं-सलीलं यथा स्यात् तथा, चलिताना-प्रस्थितानो, सेनापतिसैन्याना, कोलाहलेन-कल कलेन, जनितम्-उत्पा
SR No.008456
Book TitleTilakamanjiri Part 2
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy