SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ २६८ टिप्पनक-परागविवृतिसंवलिता तत्र चाभिनवपितृवियोगशून्येनापि चेतसा चिन्तयन्नमात्यमण्डलेन सह परमण्डलकृत्यमनुपालयन् गमनसामग्रीव्यग्रमात्मपरिग्रहप्राग्रहरलोकमालोकयन्नानीतानि गत्वा सत्वरैर्द्वारपालैरासन्नवेलाकूलनगरेभ्यो यात्राक्षमाणि यानपात्राणि द्वित्राणि दिनान्यतिष्ठम् [अ] । अनुष्ठितसकलतत्कालकृत्यश्च पुरः प्रतिष्ठासुरन्यतरेयुरपराह्नसमये समाहूतसकलनिजपरिषद्विजातिरुल्लसत्तारसूर्यघोषामुदारवेषयोषिद्वन्दगीयमानगाम्भीर्यमहिममर्यादादिजलनिधिगुणामाचमनपूतपुरोहितगृहीतकनकापात्रनिक्षिप्तदधिदूर्वाक्षता स्वयमेवोक्षितैर्भक्ष्यबलिभिविलेपनैः पुष्पदामभिरंशुकै रत्नालंकारैश्च बहुविकल्पैरुपकल्पितामनल्पया भक्त्या भगवतो रत्नाकरस्य पूजां प्रातिष्ठिपम् [क]। अतीतभूयिष्ठायां च शर्वर्यामाहते प्रयाणपटहे, रटत्सु राजद्वारि तारध्वनिषु मङ्गलतूर्येषु, सत्वरोत्थितगृहस्थनिर्दयाक्रोशकर्शितनिद्रेषु निःसरत्सु तृणकुटीरकोटरादतिकष्टमुक्तसंस्तरेषु कर्म मण्डिताजिरैः महाकायाभिः-विस्तृतखरूपाभिः, मण्डपिकाभिः-गृहविशेषैः, मण्डितः-अलङ्कृतः, अजिरः-प्राङ्गणभूमिर्येषां तादृशैः, पुनः अखण्डबुध्नाण्डकपरिमण्डलाकारैः अखण्ड-सम्पूर्ण यत् बुघ्नं-घटमूलभागः, अण्डकं-हखं पक्ष्याण्ड च, तयोरिव परिमण्डलः-वर्तुलः, आकारः-स्वरूपं येषां तादृशैः [ अं] । च पुनः, तत्र तस्मिन्नावासे, अभिनवपितृवियोगशून्येनापि अभिनवेन-नवीनेन, पितृवियोगेन-पितृविरहेण हेतुना, शून्येनापि-लुप्तसंज्ञेनापि, चेतसा चित्तेन, अमात्यमण्डलेन मन्त्रिमण्डलेन सह, परमण्डलकृत्यं रिपुमण्डलकार्यम् , चिन्तयन् विचारयन् पुनःगमनसामग्रीव्यग्रं गमनोपकरणजातसंघटनव्याकुलम्, आत्मपरिग्रहप्राग्रहरलोक खपरिवारप्रधानजनम् , अनुपालयन् परिरक्षन् ; सत्वरैः त्वरा-शैघ्य, तत्सहितैः, द्वारपालैः प्रतीहारैः, गत्वा, आसन्न घेलाकलनगरेभ्यः आसन्नेभ्यः-सन्निहितेभ्यः, चेलाकूले-तटप्रान्ते, यानि नगराणि तेभ्यः, आनीतानि आगमितानि, यात्राक्षमाणि प्रयाणसहानि, यानपात्राणि जलयानानि, आलोकयन् पश्यन् ; द्वित्राणि द्वे वा त्रीणि वा दिनानि, अतिष्ठम् स्थितवान् [अ] 1 . च पुनः, अनुष्ठितसकलतत्कालकृत्यः कृताशेषतात्कालिकक्रियः, पुरः अग्रे, प्रतिष्ठासुः प्रयातुकामः, अन्यतरेयुः अन्यतरस्मिन् दिने, अपराह्नसमये मध्याहसमये, समाहूतसकलनिजपरिषद्विजातिः समाहूताःसम्यगाहूताः, सकला:-सर्वे, परिषद्विजातयः-सभासदो विप्रा यस्तादृशः सन् , अनल्पया प्रचुरया, भक्त्या प्रीत्या, भगवतः ऐश्वर्यशालिनः, रत्नाकरस्य समुद्रस्य, पूजां प्रातिष्ठिपं प्रतिष्ठापितवान् कृतवान् अस्मि, कीदृशीम् ? उल्लसत्तारतूर्यघोषाम् उल्लसन्-उच्चरन् , तारः-तीव्रः, तूर्यस्य--वाद्यविशेषस्य, घोषः-ध्वनिर्यस्यां तादृशीम् , पुनः उदारवेषयोषिद्वृन्दगीयमानगाम्भीर्यमहिममर्यादादिजलनिधिगुणाम् उदारः-उज्ज्वलः, वेषः-कृत्रिममण्डनं यासां तादृशीनाम् , योषितां-वधूनां, वृन्देन-गणेन, गीयमाना-गानद्वारा वर्ण्यमाना, गाम्भीर्यम्-अगाधता, महिमा-महत्त्वम् , अतिसुदूरविस्तृतत्वम्, मर्यादा-स्थित्यनतिक्रमः, तदादयः-तत्प्रभृतयो, जलनिधिगुणाः-समुद्रसम्बन्धिगुणा यस्यां तादृशीम् , पुनः आचमनपूतपुरोहितगृहीतकनकार्घपात्रनिक्षिप्तदधिदूर्वाक्षताम् आचमनेन-जलस्य किश्चित्पानेन, पूतः-शुद्धहृदयो यः पुरोहितः-पुरोधाः, तेन गृहीतानि-धृतानि, कनकापात्रनिक्षिप्लानि-सुवर्णमयाघपात्रनिहितानि, दधि, दूर्वा-तृणविशेषः, अक्षतम्-आर्द्रतण्डुलाश्च यस्यां तादृशीम् , पुनः स्वयमेव खेनैव, उक्षितैः पवित्रतापादनार्थ जलेन सितैः, स्वयमवेक्षितैरिति पाठे च-मात्मनैव साध्वसाधुनिर्णयार्थमवलोकितैरित्यर्थः, भक्ष्यबलिभिः भक्षणीयैः पूजोपहारैः, नैवेद्यद्रव्यरित्यर्थः, विलेपनैः चन्दनकेसरादिसुगन्धिद्रवैः, पुष्पदामभिः पुष्पमाल्यः, अंशुकैः वस्त्रैः, च पुनः, बहुविकल्पैः बहुप्रकारैः, रत्नालङ्कारः रत्नमयाभरणैः, उपकल्पिताम उयपादितामाकच पुनः, अतीतभूयिष्ठायाम अतिक्रान्तबहुतरभागायां, शर्वर्या रात्रौ, तल्पं शय्या, विमुच्य विस्ज्य, अल्पपदातिपरिवृतः कतिपयपादगामिभटपरिवेष्टितः सन् , बाह्यास्थानमण्डपं बाह्यसभामण्डपम् , अगच्छं गतवानहम् ; कस्मिन् कीदृशे ? प्रयाणपटहे प्रस्थानसूचकवाद्यविशेथे, आहते ताडिते सति; पुनः राजद्वारि राजद्वारे, तारध्वनिषु तीवनादेषु, मङ्गलतूर्येषु मालार्थवाद्यविशेषेषु, रटत्सु ध्वनत्सुः पुनः कर्मकरेषु भृत्येषु, तृणकुटीरकोटरात् तृणरचितहखकुटीररन्ध्रात् , निःसरत्सु निर्गच्छत्सु, कीदृशेषु
SR No.008456
Book TitleTilakamanjiri Part 2
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy