________________
तिलकमञ्जरी। स्वरापतज्जलविसरसारणीसिक्तसान्द्रबालद्रुमतलनिषादिना परिश्रान्तपथिकलोकेन प्रतिदिवसमाकय॑मानमधुरतारघटीयनचीत्कारैः परित्यक्तसकलव्यापारेण पौरवनितामुखार्पितहशा सविक्रिय प्रजल्पता पठता गायता च भुजङ्गसमाजेन क्षणमप्यमुच्यमानमनोभवभवभवानीभवनैः प्रति दिवसमधिकाधिकोन्मीलन्नीलकान्तिभिः स्वसन्ततिप्रभवपार्थिवप्रीतये दिनकरेणेवाकृष्य संचार्यमाणसकलशर्वरीतिमिरैरमरकाननानुकारिभिरारामैः श्यामायमानपरिसरा [ल], गिरिशिखरततिनिभशातकुम्भप्रासादमालाध्यासितोभयविभागैः स्फुट विभाव्यमानमरकतेन्द्रनीलवनवैडूर्यराशिभिश्चामीकराचलतटीव चण्डांशुरथचक्रमार्गः पृथुलायतैर्विपणिपथैः प्रसाधिता [ल.],
-
-.--
-.-. .. ...
---
टिप्पनकम्-परिसरः-पर्यन्तः [ ल]। प्रसाधिता मण्डिता [ल.] ।
परागाभिधा विवृतिः-पुनः कीदृगसो नगरी? आरामैः उपवनैः, क्रीडाकाननैरित्यर्थः, श्यामायमानपरिसरा श्यामायमानः-श्यामीभवन् , परिसरः-स्वप्रान्तप्रदेशो यस्यास्तादृशी, “पर्यन्तभूः परिसरः" इत्यमरः, कीदृशैरारामैः ? त्वरापतजलविसरसारणीसिक्तसान्द्रवालद्रुमैः त्वरया-वेगेन, न तु विलम्बेन, पतन्-स्यन्दमानः, जलानाम् , विसरः-संघातो यत्र तया, सारण्या-प्रणाल्या, सिक्ताः, सान्द्राः-निबिडाः, बालद्रुमाः- लघुपादपा येषु तैः, पुनः कीदृशैः ? दुमतलनिषादिना वृक्षाधश्छायोपवेशिना, परिश्रान्तपथिकलोकेन परिश्रान्तेन-मार्गगमनक्लान्तेन, पथिकलोकेन-प्रवासिजनेन, प्रतिदिवसं प्रतिदिनम् , आकर्ण्यमानमधुरतारघटीयन्त्रचीत्कारैः आवर्ण्यमानाः-श्रूयमाणाः, मधुरा:-श्रोत्रयेयाः, ताराः-उच्चाः, घटीयन्त्रस्य-अरघसंज्ञकस्य जलोद्धारण यन्त्रस्य, चीत्कारा येषु तादृशैः, पुनः कीदृशैः ? क्षणमपि निमेषमात्रमपि, अमुच्या मानमनोभवभवभवानीभवनः अमुच्यमान:-अपरित्यज्यमानः, मनोभवः-कामदेवः, विलास इत्यर्थः, येषु तादृशानि, भवस्य-शिवस्य, भवान्या:-पार्वत्याश्च, भवनानि-मन्दिराणि यन्त्र तथाविधेः, शिवसामीप्येऽपि मदनोद्दीपकरित्यर्थः, यद्वा मनोभवस्य-कामस्य, भवस्य-शिवस्य, भवान्या:-पार्वत्याश्च, मनोभव एव भवः, जगत्कारणत्वात् , तस्य भवानी-पत्नी, रतिरित्यर्थः, तस्या वा, भवनममुच्यमानं यत्र तथाविधैः, केनामुच्यमानमनोभवभवानीभवनैः ? भुजङ्गसमाजेन लम्पटपटलेन, कीदृशेन तेन ? परित्यक्तसकलव्यापारेण परित्यक्तः-सर्वतोभावेन वर्जितः, सकलन्यापारः-विलासातिरिक्तं निखिलकार्य येन तादृशेन, पुनः कीदृशेन ? पौरवनितामुखार्पितहशा पौरवनितानाम्-अयोध्यानगरीवास्तव्यनारीणाम् , मुखेषु, अर्पिता- निपातिता, दृग-दृष्टियन तादृशेन, किं कुर्वता च तेन? सविक्रियं विविधा क्रिया विक्रिया भ्रूभङ्गादिरूपा, तत्सहितं यथा स्यात्तथा, प्रजल्पता किमपि किमप्यालपता, पठता शिवस्तोत्रादिपाठं कुर्वता, गायता च शिवादिगुणगानं कुर्वता च, पुनः कीदृशरारामः? प्रतिदिवसं प्रतिदिनम्, अधिकाधिकोन्मीलन्नीलकान्तिभिः अधिकाधिकम्-अधिकादधिकम, निरतिशयमित्यर्थः, उन्मीलन्ती-उद्भासमाना, नीला-कृष्णा, कान्तिः-द्युतिर्येषु तादृशः, अत एव कीदृशैरिव ? दिनकरेण सूर्येण, आकृष्य स्ववंशजराजस्वामिभूमण्डलादपहृत्य, संचार्यमाणसकलशर्वरीतिमिरैरिव संचार्यमाणं-प्रवेश्यमानम्, सकल-समग्रम् , शर्वरीतिमिरं-रात्र्यन्धकारो येषु तथाविधैरिवेत्युत्प्रेक्षा, किमर्थमाकृष्य तत्र तत्संचार: ? वसन्ततिप्रभवपार्थिवप्रीतये खस्य-सूर्यस्य, सन्ततिः-अपत्यपरम्परा, वंश इत्यर्थः, प्रभवः- उत्पत्त्यधिकरणं येषां तेषाम् , खवंशजाना मित्यर्थः, पार्थिवानाराज्ञाम् , इक्ष्वाकुप्रभृतीनाम् , प्रीतये-प्रसादाय, वर्ण्यमानाऽयोध्या नगरीनृपाणामिक्ष्वाकुवंशतया, इक्ष्वाकुवंशस्य च सूर्यवंशतया सूर्येण जगदुपचितान्धकारराशिरुपसंहृत्य तत्रत्यारामेपक्षिप्त इति तद्वहिर्देशेषु सन्ततप्रकाशेनायोध्याधिपतीनामप्रतिमः प्रसाद इति बोध्यम् , पुनः कीदृशैस्तैः ? अमरकाननानुकारिभिः देवोद्याननन्दनवनसमानैः [ल] | पुनः कीदृगसौ नगरी ? विपणिपथैः पण्यवीथिकामार्गः, हट्टमार्गेरित्यर्थः, प्रसाधिता अलङ्कृता, कीदृशैस्तैः ? गिरिशिखरततिनिभशातकुम्भप्रासादमालाध्यासितोभयविभागैः गिरिशिखरामां-पर्वतशाणाम् , ततिः-पतिः, तन्निभानां-तत्सदृशानाम् , शातकुम्भप्रासादाना-सुवर्णमयमन्दिराणाम् , मालाभिः-श्रेणिभिः, अध्यासितः-व्याप्तः, उभयभाग:-दक्षिणवामपार्श्वभागो येषां तादृशैः, पुनः कीदृशैस्तैः ? स्फुटविभाव्यमानमरकतेन्द्रनीलवज्रवैडूर्यराशिभिः स्फुट-विस्पष्टं यथा स्यात्तथा, विभाव्यमानः