________________
४४
टिप्पनक-परागविवृतिसंवलिता विपुलसोपानसुगमावतारवापीशतसमाकुला [उ ], मनोरथानामपि दुर्विलङ्घन प्लवमानकरिमकरकुम्भीरभीषणोर्मिणा जलप्रतिबिम्बितप्राकारच्छलेन जलराशिशङ्कया मैनाकमन्वेष्टुमन्तः प्रविष्टहिमवतेव महता खातवलयेन वेष्टिता [ऊ), पवनपटुचलितधवलध्वजकलापैर्जामदग्न्यमार्गणाहतकौञ्चाद्रिच्छिट्टैरिवोद्धान्तराजहंसैराशानिर्गममार्गायमाणैश्चतुर्भिरत्युच्चैर्गोपुरैरुपेता [ऋ], प्रांशुशिखराम. ज्वलत्कनककलशैः सुधापङ्कवलप्राकारवलयितैरमरमन्दिरमण्डलैर्मण्डलितभोगमध्यप्रवेशितोन्मणिफणासहस्रं शेषाहिमुपसद्भिरुद्भासितचत्वरा [ ऋ],
टिप्पणकम्-[ नेह व्याख्यातम् ] ।
AL
परागाभिधा विवृतिः-पुनः कीदृगसौ नगरी ? विपुलसोपानसुगमावतारवापीशतसमाकुला विपुलैः-- विशालः, असंकीर्णरित्यर्थः, सोपानैः-निःश्रेणिकाभिः, सुगमः-सुकरः, अवतारः-अधोगमनं यासु तासाम् , वापीनांजलाशयविशेषाणाम् , शतैः समाकुला-व्याप्ता, “शतेन धनुर्भिः पुष्करणी, त्रिभिर्दीर्घिका, चतुर्भिणः, पञ्चभिस्तडागः, द्रोणाद् दशगुणा वापी" इति शब्दस्तोममहानिधौ परिभाषितत्वात् , [उ] । पुनः कीदृगसौ नगरी? महता विस्तृतेन, खातवलयेन परिखामण्डलेन, वेष्टिता परिवृता, कीदृशेन तेन ? मनोरथानामपि संकल्पानामपि, दुर्विलोन दुरतिक्रमेण, यदुल्लङ्घयितुमोजखिनामपि संकल्पमात्रमपि न सम्भवति तादृशेनेत्यर्थः, पुनः कीदृशेन तेन ? प्लवमानकरि-मकर-कुम्भीरभीषणोर्मिणा प्लवमानः-उच्छलद्भिः, करिभिः-जलहस्तिभिः, मकरैः खना- विदितैलजन्तुविशेषैः, कुम्भीरैः-जलशूकरैश्च, भीषणाः भयानकाः, ऊर्मयः-तरशा यस्मिन् तेन, पुनः कीदृशेन ? अन्तःप्रविष्टहिमवतेव अन्तःप्रविष्टः-मध्ये प्रविष्टः, हिमवान्-हिमाचलो यत्र तादृशेनेवेत्युत्प्रेक्षा, केन रूपेण तत्र तत्प्रवेशः जलप्रतिबिम्बितप्राकारच्छलेन जले-अधस्तनपरिखोदके, प्रतिबिम्बितः-नैर्मल्यात् प्रतिफलितो यः, प्राकारः-तदुपरितनः, तच्छलेन-तद्व्याजेन, किमर्थमसौ तत्र प्रविष्टः ? जलराशिशङ्कया विशालताऽगाधताभ्यां तत्र समुद्रशङ्कया, मैनाकं तन्नामकं समुद्रमन्नमात्मजम् , अन्वेष्टुं गवेषयितुम् [ऊ]। पुनः कीदृगसौ नगरी ? गोपुरैः पुरद्वारैः, उपेता युक्ता, “पुरद्वारं तु गोपुरम्” इत्यमरः, कीदृशैस्तैः ? पवनपटुचलितधवलध्वजकलापैः पवनैः-बाह्यवायुभिः, पटु यथा स्यात् तथा चलितः-कम्पितः, धवलध्वज्ञाना-श्वेतपताकानाम् , कलापःसमूहो येषु तादृशैः, पुनः कीदृशैरिव तैः? जामदग्यमार्गणाहतकौञ्चादिन्छिनेरिव जामदग्न्यस्य-जमदग्रसत्यस्य परशु. रामस्य, मार्गणैः-बाणैः, आहतस्य छिन्नस्य, कौचाद्रेः-कौञ्चपर्वतस्य, छिद्ररिव-विवररूपैरिवेत्युत्प्रेक्षा, "कुञ्चतीति कुचः, प्रज्ञाद्यणि कौचः, कौच्चोऽपि” इत्यभिधानचिन्तामणिवृत्त्या तस्योभयाभिधानप्रसिद्धिः, अत एव उनान्तराजहंसैः उत्-ऊर्ध्वम् , भ्रान्ताःपवनोद्भूयमानधवलपताकासु भ्रमगोचरतां गताः, राजहंसाः-रक्तचरणचञ्चुचणाः श्वेतवर्णा हसविशेषा येषु तादृशैः, कौञ्चाद्रिविवरे तु उद्घान्ताः-उपरिभ्रमणं कृतवन्तः, राजहंसा येष्वित्यर्थो बोध्यः, पुनः कीदृशस्तै: ? आशानिर्गममार्गायमाणैः आशानां-- पूर्वादीनां चतसृणां दिशाम् , निर्गमः-निष्क्रमणम् , तन्मार्गायमाणेः-तन्मार्गवद् आचरणकारकैः, एतेन चतुर्दिवर्तित्वं विशालत्वं च तेषां सूचितम् , पुनः कीदृशैस्तैः ? अत्युच्चैः अतिशयेनोन्नतैः, कतिभिस्तैः ? चतुर्भिः पूर्व-पश्चिमोत्तर-दक्षिणैः । अत्रातिशयोक्तिरुत्प्रेक्षया संसृज्यते कि। पुनः कोहगसौ नगरी? अमरमन्दिरमण्डलेः देवमन्दिरवृन्दैः, उद्धासितचत्वरा उद्भासितानि स्वधवलिमातिशयेन उज्वलानि, चत्वराणि अङ्गणानि यस्यास्तादृशी, कीदृशेन्तैः ? प्रांशुशिखरामज्वलत्कनककलशैः प्रांशूनाम्-उच्चानाम् , शिखराणां-शृङ्गाणाम् , अग्रेषु-मौलिषु, ज्वलन्तः-उद्भासमानाः, कनककलशाः सुवर्णकुम्भा येषु तादृशैः, पुनः कीदृशैस्तैः? सुधापङ्कधवलप्राकारवलयितैः सुधायाः-भस्मसात्कृतशुक्तिकादिचूर्णाख्यद्रव्यस्य, पङ्केनद्रवेण, धवलैः-शुभैः, प्राकारैः, वलयितैः-वेष्टितैः, अत एव मण्डलितभोगमध्यप्रवेशितोन्मणिफणासहस्रं मण्डलितस्य-वलयितस्य, भोगस्य- शरीरस्य, मध्ये, प्रवेशितं-निवेशितम् , उन्मणि-उद् ऊर्ध्व मणिर्यस्य तादृशं फणासहस्रं यस्य तथाभूतम् , शेषाहिं शेषनागम् , उपहसद्भिरिव शोभातिशयेन तिरस्कुर्वद्भिरिवेत्युत्प्रेक्षा, अत्र वलयितशेषस्थानीयं धवलप्राकारबलयितममरमन्दिरवन्दम् , फणास्थानीयानि च शिखराणि, मणिस्थानीयाश्च कनककलशा बोध्याः, अत्र काव्यलिङ्गालङ्कारोऽतिशयोक्त्या संसृज्यते, []