________________
४६
टिप्पनक-परागविवृतिसंवलिता धृतोद्धरप्राकारपरिवेषैरभ्रङ्कषप्रतोलिभिरुत्तुङ्गमकरतोरणावनद्धहरितवन्दनमालैोलाविभूषिताङ्गणवेदिभिरश्रान्तकालागरुधूपधूमाश्लेषभयपलायमानदन्तवलभिकाभित्तिचित्रानिव विचित्रमयूखजालकमुचो माणिक्यजालकान् कलयद्भिरद्भुताकारैरनेकभूमिकाभ्राजिष्णुभिः सौधैः प्रवर्तिताविरतचन्द्रोदया [ए], प्रतिगृहं स्वच्छधवलायताभिदृष्टिभिरिव दिशारसेन वसुधया व्यापारिताभिः क्रीडासरसीभिः संवलिता [ऐ], मृदुपवनचलितमृद्विकालतावलयेषु वियति विलसतामसितागुरुधूपधूमयोनीनामासारवारिणेवोपसिच्यमानेष्वतिनीलसुरभिषु गृहोपवनेषु वनितासखैर्विलासिभिरनुभूयमानमधुपानोत्सवा [ ओ],
टिप्पनकम्-[ नेह व्याख्यातम् ] । मृद्विका-द्राक्षा, धूमयोनिः-मेधः [ ओ] ।
परस्परपार्थक्येन प्रतीयमानः, मरकतानां-तनामकमणि विशेषाणाम् , इन्द्रनीलाना-"क्षीरमध्ये क्षिपेन्नीलं क्षीरं चेन्नीलतां नयेत" इत्युक्तालक्षणानां नीलमणीनाम्, वज्राणां-हीरकाणाम्, वैडूर्याणां-तन्नामकानां रत्नविशेषाणां च, राशि:-समूहो येषु तादृशेः, "वनं मुक्ता प्रवालं च गोमेदश्वेन्द्रनीलकः । वैडूर्य पुष्परागश्च पाचिर्माणिक्यमेव च ॥ महारत्नानि चैतानि नव प्रोक्तानि सूरिभिः" इति रत्नतत्त्वहस्तेषां महारत्नत्वप्रतिपादनात्, पुनः कीदृशैस्तैः ? पृथुलायतैः विस्तारदैर्ध्यान्वितैः, कीदृशैः कैः केव तैरसौ प्रसाधिता ? पृथुलायतैः, चण्डांशुरथचक्रमागैः चण्डांशुः-सूर्यः, तस्य यद् रथचक्रं रथाङ्गम् , तद्गमनमार्गः, चामीकराचलतटीव चामीकर-सुवर्णम् , तस्य अचल:-पर्वतः, सुमेररित्यर्थः, तस्य तटीव-तटप्रदेश इव, “चक्रं रथाङ्गम्" इत्यमरः [ल]। पुनः कीदृगसौ नगरी ? सौधैः सुधालेपोऽस्ति येषु तैः, सुघोपलिः प्रासादैः, चन्द्रवद् उद्भासमानः, प्रवर्तिताविरतचन्द्रोदया प्रवर्तितः-सम्पादितः, प्रत्यायित इत्यर्थः, अविरतः- सन्ततः, अविच्छिन्न इत्यर्थः, चन्द्रोदयो यस्यां तादृशी, कीदृशैः सौंधैः ? धृतोद्धरप्राकारपरिवेषैः धृतः, उद्धराणाम्-उन्नतानाम् , प्राकाराणां-दुर्गाणाम् , परिवेषःमण्डलं यैस्तादृशैः, पुनः कीदृशैः? अभ्रङ्कषप्रतोलिभिः अभ्रङ्कषाः-गगनचुम्बिनः, प्रतोलयः-प्रतीहारोपवेशनस्थानानि 'पोल' इति प्रसिद्धानि प्रवेशद्वारस्थानानि येषु तादृशैः, पुनः कीदृशैः ? उत्तुङ्गमकरतोरणावनद्धहरितवन्दनमालैः उत्तुङ्गाःअत्यन्तोन्नताः, अत्यायता इत्यर्थः, मकराः-चित्रिता उत्कीर्णा वा जलजन्तुविशेषा येवु तादृशेषु, तोरणेषु-बहिारेषु, अवनद्धालम्बिता, हरिता-हरितवर्णा, वन्दनमाला-आम्रदलादिनिर्मिता मङ्गलमाला येषु तादृशैः, "तोरणोघे तु मजल्यं दाम मङ्गलमालिका" इत्यभिधानचिन्तामणिः, पुनः कीदृशः ? दोलाविभूषिताङ्गणवेदिभिः दोलाभिः-क्रीडोपकरणरूपैरान्दोलनयन्त्रैः, विभूषिता, अङ्गणस्य-प्रासादान्तःप्रदेशस्य, वेदयः-परिष्कृतचतुरस्त्रभूमयो येषु तादृशैः, पुनः कीदृशैः ? माणिक्यजालकान माणिक्याख्यरत्नमयगवाक्षान् , कलयद्भिः धारयद्भिः, कीदृशानमून् ? विचित्रमयूखजालकमुचः विचित्रान्-नानावर्णकान्, मयूखजालकान्-किरणनिकरान् , मुञ्चन्ति-परितो विक्षिपन्ति ये तान्, कानिय ? अश्रान्तकालागरुधुर भयपलायमानदन्तवलभिकाभित्तिचित्रानिव अश्रान्तः-अविच्छिन्नो यः, कालस्य-कृष्णस्य, अगरोः-तन्नामकद्रव्यस्य, धूपेन-अग्निसन्तापेन, धूमः, तदाश्लेषभयेन-तत्सम्पर्कभयेन, हस्तिनो निसर्गतो नयनवेदनातिशयजनकधूपसम्पर्कासहिष्णुतया तदीयदन्तानामपि तत्सम्भवात् पलायमानानाम् , दन्तवलभिकानां-छदिराधारभूतानां हस्तिदन्तमयानां वक्रदारूणाम् , भित्तिचित्रानिव-भित्तिगतप्रतिबिम्बानिवेत्युत्प्रेक्षा, पुनः कीदृशैः ? अद्भुताकारैः अद्भुतः-द्राधिमादिना विस्मयावहः, आकारः-आकृतिः सन्निवेशो येषां तादृशः, पुनः कीदृशैः१ अनेकभूमिकाभ्राजिष्णुभिः अनेकाभिः, भूमिकाभिः-अधोऽधःसन्निविष्टाट्टालिका खण्डः, भ्राजिष्णुभिः-उद्भासिभिः [ए] । पुनः कीदृगसौ नगरी ? प्रतिगृहं प्रत्येक प्रासादपार्श्वे, प्रत्यन्तःपुरमिति यावत् , क्रीडासरसीभिः जलकेलिकल्पितसरोवरैः, संवलिता समन्विता, कीदृशीभिस्ताभिः ? स्वच्छधवलायताभिः स्वच्छाःकर्दमायकलुषिताः, निर्मला इत्यर्थः, ताश्च ता धवला:-शुभ्राः, ताश्च ता आयताः-दीर्धास्ताभिः, काभिरिव ? वसुधया अयोध्याधिष्ठितपृथिव्या देव्या, दिदृक्षारसेन निरुक्तनगरीनिरीक्षणोत्कण्ठाकुतूहलेन, व्यापारिताभिः उन्मीलिताभिः, दृष्टिभिरिव निजनयनैरिवेत्युत्प्रेक्षा ऐ] । पुनः कीदृगसौ नगरी ? वनितासखैः खविलासिनीसहितैः, विलासिभिः विलासशीलैः
ष अन्तःपुरकेलिकाननेषु. अनभयमानमधपानोत्सवा अनुभूयमानः-आस्वाद्यमानः, मधुपानोत्सवः-मद्यपानसमेधमानसम्भोगरसो यस्यामसौ, कीदृशेपूपवनेषु ? मृदुपवनचलितमृद्विकालतावलयेषु मृदुपवनेन-मन्द
पुरुषः