________________
तिलकमञ्जरी।
अस्ति रम्यतानिरस्तसमस्तसुरलोका [अ], स्वपदापहारशङ्कितशतक्रतुप्रार्थितेन शततमऋतुवाञ्छाविच्छेदार्थमिव पार्थिवानामिक्ष्वाकूणामुत्पादिता प्रजापतिना [आ], वृत्तोज्वलवर्णशालिनी कर्णिकेवाम्भोरुहस्य मध्यभागमलङ्कृत्य स्थिता भारतवर्षस्य [इ ], तुषारधवलभित्तिना विशालवप्रेण परिगता प्राकारेण [ ई],
टिप्पनकम्-अस्तीत्यादि गरीवर्णकः [अ] । शतक्रतुः-इन्द्रः [आ] । वृत्तीजवलवर्णशालिनी निर्मलशीला ये वर्णाः-ब्राह्मणादयः, तैः शालिनी-शोभायमाना पुरी, कर्णिका च-बीजकोषश्च, वृत्ता-वर्तुला, धवलवर्णशालिनी च [] 1 वप्रः-तटः [ई]।
परागाभिधा विवृतिः-अथ मङ्गलादिकमाचर्य प्रकृतकथामुपन्यस्यति-अस्तीति । 'उत्तरकोशलेषु 'अयोध्या' इति यथार्थाभिधाना नगरी अस्ति' इति दूरेणान्वयः, उत्तरकोशलेषु कोशलदेशोत्तरखण्डमध्ये, कोशलशब्दस्य देशविशेषवान्वित्वाद् बहुवचनेन निर्देशः, अयोध्या इति 'अयोध्या' इतिनानी, यथार्थाभिधाना अर्थम्-अवयवार्थम् , अनतिक्रम्य वर्तत इति यथार्थम् , यथार्थम् अभिधानं-नाम यस्याः सा, अवयवार्थश्च 'योद्धुं शक्या योध्या, न योध्या अयोध्या' इति, विपुलरक्षणसाधनसंकलिततया रिपुभिरनाक्रमणीयेति भावः, नगरी "पुण्यक्रियादिनिपुणैश्चातुर्वर्ण्यजनैर्युता । अनेकजातिसम्बद्धा नैकशिल्पिसमाकुला । सर्वदैवतसम्बद्धा नगरीत्यभिधीयते" इतिलक्षणलक्षिता पुरी, अस्ति विद्यते, कविकालेऽपि विद्यमानत्वात् । तामेव नगरी विशिनष्टि-रम्यतानिरस्तसमस्तसुरलोका रम्यतया-स्वसौन्दर्येण, निरस्तः-तिरस्कृतः, समस्तः-सकलः, सुरलोकः-सुरपुरी यया सा । अत्रातिशयोक्तिरलङ्कारः । [अ] । पुनः कीदृगसौ नगरी ? स्वपदापहारशङ्कितशतक्रतुप्रार्थितेन वपदस्य-खाराज्यपदस्य, इन्द्रपदस्येत्यर्थः, अपहारे-शततममश्वमेधं कृत्वा इक्ष्वाकुभिस्तत्पदात् प्रच्यावने, शङ्कितः- शङ्का. कुलो यः, शतक्रतुः-इन्द्रः, तेन प्रार्थितेन-अभ्यर्थितेन, प्रजापतिना ब्रह्मणा, उत्पादितेव स्वर्गादुत्कृष्टतया सृष्टेवेत्युत्प्रेक्षा, किमर्थं प्रार्थितेन ? इक्ष्वाकूणाम् इक्ष्वाकुवंशजानाम् , पार्थिवानां नृपाणाम् , शततमक्रतुवाञ्छाविच्छेदार्थमिव एकोनशतमश्वमेधाननुष्ठाय या शततमक्रतो:-शततमाश्वमेधस्य वाञ्छा-चिकीर्षा समजनि, तस्या विच्छेदार्थ-निवृत्त्यर्थम् । “अश्वमेधशतादिन्द्रो जायते” इति श्रुत्या इन्द्रपदस्य ऋतुशतसाध्यतया इक्ष्वाकुभिरेकोनशताश्वमेधेष्वनुष्ठितेषु अवशिष्टेन शततमाश्वमेधेन खपदप्रच्युतिमाशय मर्त्यलोक एव खर्गोत्कृष्ट नगरी कारयित्वा तदीयतद्वाञ्छानिवृत्तिमिन्द्रः प्रार्थितवानासीदिति प्रार्थना
गतद्वाञ्छाविच्छेदोत्प्रेक्षा, यद्वा किमर्थमुत्पादिता? इल्याकाडया शततमक्रतुवाञ्छाविच्छेदार्थत्वमुत्पादनक्रियायामन्तीति तत्फलोत्प्रेक्षेति बोध्यम् । आ]। पुनः कीदृगसौ नगरी? वृत्ताजवलवर्णशालिनी वृत्तेन-"गुरुपूजा घृणा शौचं सत्यमिन्द्रियनिग्रहः । प्रवर्तनं च हितानां तत् सर्व वृत्तमुच्यते" ॥ इति वृत्तपदपरिभाषितार्थन चारित्रेण, उज्ज्वलैः-देदीप्यमानः, वणैःब्राह्मणादिभिः, शालते-शोभते तच्छीला या तादृशी, अत्रातिशयोक्तिरलङ्कारः, अत एव भारतवर्षस्य भारतक्षेत्रस्य, मध्यभागं केन्द्रस्थानम् , अलङ्कत्य स्खेन विभूष्य, स्थिता, कस्य मध्यभागमलकृत्य कीदशी केव ? अम्भोरुहस्य कमलस्य, मध्यभागमलङ्कृत्य, वृत्तोज्वलवर्णशालिनी कर्णिकेव वृत्ता-वर्तुलाकारा, उज्वला-विकसिता, वर्णशालिनी पीतात्मकरूपशालिनी, यद्वा उज्वलं-सुवर्णम् , तद्वर्णशालिनी स्फीतपीतरूपशालिनी उज्वलपीतरूपशालिनी वा, या कर्णिका-कमलबीजकोषः, सा इवेत्यर्थः । अत्र श्लेषानुप्राणितोपमालङ्कारः, भारतवर्षस्याम्भोरहेण समं बिम्बानुबिम्बभावानिर्देशनालङ्कारश्च । “वृत्तं वृत्ती दृढे मृते। चरित्रे वर्तुले छन्दस्यतीताधीतयोवृत्ते" इति, "उज्वलस्तु विकासिनि । शृङ्गारे विशदे दीप्ते" इति चानेकार्थसङ्ग्रहः, "उज्वलः वर्णम्” इति शब्दस्तोममहानिधिः, "वर्णो गुणाक्षरयशःशुक्लादिब्राह्मणादिषु । वर्णः स्तुती कथायां च वर्णः स्याद् भेद-रूपयोः" इति शाश्वतः ॥ [३] । पुनः कीदृगसौ नगरी ? प्राकारेण सालेन, कोट्टेनेत्यर्थः, परिगता वेष्टिता, “प्राकारो वरणः सालः" इत्यमरः, कीदृशेन तेन ? तुषारधवलभित्तिना तुषार इत्र-हिममिव कर्पूरमिव वा, धवला-शुभ्रा, भित्तिः-कुण्ड्यं यस्य ताहशेन, पुनः कीदृशेन तेन ? विशालवप्रेण विशाल:-बृहत्तरः, वप्रः-प्राकाराधारभूता परिखोद्धृतमृचयोचभूमिर्यस्य तादृशेन, “चयो वोऽस्य पीठभूः” इत्यभिधानचिन्तामणिः, [ई]।