________________
४२
टिप्पनक - परागविवृतिसंवलिता
तज्जन्मा जनकाङ्क्षिपङ्कजरज तः सेवाविद्यालवो विप्रः श्रीधनपाल इत्यविशदामेतामबघ्नात् कथाम् ।
अक्षुण्णोsपि विविक्तसूक्तिरचने यः सर्वविद्याब्धिना
श्रीमुञ्जेन सरस्वतीति सदसि क्षोणीभृता व्याहृतः ॥ ५३ ॥ [ शार्दूलविक्रीडितम् ]
टिप्पनकम् - [ नेह व्याख्यातम् ] ॥ ५३ ॥
परागाभिधा विवृतिः- अथाधिकृतकथाकर्तृत्वेन कविरात्मानं परिचाययति - तज्जन्मेति । 'तज्जन्मा ज नकाङ्घ्रिपङ्कजरजःसेवाप्तविद्यालवः, श्रीधनपाल इति [ सः ] विप्रः, अविशदाम् एतां कथाम् अबभात्, यः विविक्तसूक्तिरचने अक्षुण्णोऽपि सर्वविद्याब्धिना श्रीमुञ्जेन क्षोणिभृता सदसि सरस्वती इति व्याहृतः' इत्यन्वयः । तज्जन्मा तस्माद्-अनुपदीप श्लोकितात् सर्वदेवविप्रात्, जन्म - उत्पत्तिर्यस्य सः, सर्वदेवात्मज इत्यर्थः । जनकाङ्क्षिपङ्कजरजः सेवाप्तविद्यालवः जनकस्य - स्वपितृ देवस्य, अङ्घ्रिपङ्कजरजसां चरणारविन्दरेणूनाम्, सेवया - सेवाप्रसादेन, आप्तः - लब्धः, विद्यालयः - विद्यालेशो येनासौ, एतेनात्मनः पितृदेवत्वं लवपदस्वारस्येन निरभिमानत्वं च ध्वनितम् | श्रीधनपाल इति श्रीधनपालेत्याख्यया विख्यातः सः - उत्तरार्धगतयत्पदप्रतिपाद्यत्वेन कवेरभिप्रेतः, विप्रः- ब्राह्मणः, एतां - तिलकमञ्जरी नाम्नीम्, अविशदां न विद्यते विशदा कापि कथा यदपेक्षया ताम्, सर्वोत्कृष्ट विशुद्धिशालिनीमित्यर्थः, कथाम् आख्यायिकाम्, अबनात् व्यरचयत्, कथाप्रणयनोत्तरमेव पद्यात्मकपीठिका प्रणयनेनात्र भूतकालनिर्देशः, यद्वा नैनामसौ कविरपूर्णामरचयत्, अपि तु पूर्वमध्येकदा विरच्य श्रीभोजराजायोपहृतवान् आसीत् । परन्त्वसौ तदनवधानवशाद् अनश्यदिति तां स्मारं स्मारं पुनर्विरचयामासेति पूर्वरचनामाश्रित्य भूतकालनिर्देशः । यः धनपालः, विविक्तसूक्तिरचने विविक्तसूक्तीनां विशुद्धमधुरगिराम्, यद्वा अर्थाशे समालोचितरुचिरवचसामू, रचनेविगुम्फने, अक्षुण्णोऽपि अभ्यासशून्योऽपि, अप्रगल्भोऽपीत्यर्थः, सर्वविद्यान्धिना निखिल विद्यासागरेण, अथ च क्षोणिभृता अवनिपतिना, सरस्वती श्रियोः सहकेलिनिलयेनेत्यर्थः, श्रीमुञ्जराजेन तन्नाम्ना राज्ये स्वयमभिषिक्तवता भोजपितृव्येन, सदसि सभायाम्, सरस्वतीति पुमाकृतिमती शारदैवायमिति, व्याहृतः समुद्वोषितः ।
अत्रातिशयोक्तिरलङ्कारः । “विशदः पाण्डुरे व्यक्ते” इति हैमः, “विविक्तौ पूत-विजनौ ” इत्यमरः ॥ ५३ ॥
www