________________
२८
टिप्पनक - परागविवृतिसंवलिता
निरोद्धुं पार्थते केन समरादित्यजन्मनः । प्रशमस्य वशीभूतं समरादित्यजन्मनः ॥ २९ ॥ [ पथ्या ] स्पष्टभावरसा चित्रैः पदन्यासैः प्रनर्तिता । नाटकेषु नटखीव भारती भवभूतिना ॥ ३० ॥ [ पध्या ]
wwwwww
टिप्पनकम् — निरोद्धुं केन पार्यते ? शक्यते, न केनापीत्यर्थः । किं तत् ? मनः चित्तम् । किं कुर्वन् ? त्यजत् मुञ्चत् । किं तत् ? समरादि सङ्ग्राम-मृगया द्यूत- परस्त्रीगमनप्रभृति दुष्टवस्तु । कथम्भूतम् ? वशीभूतम् आयत्तम् । कस्य ? प्रशमस्य उपशमस्य, क्षान्तेरित्यर्थः । किम्भूतस्य प्रशमस्य ? समरादित्यजन्मनः समरादित्याद् - हरिभद्रसू. रिकृतचरमकथायाः सकाशात्, जन्म-उत्पत्तिर्यस्य स तथोक्तस्तस्य ॥ २९ ॥
टिप्पनकम् - प्रनर्तिता प्रकर्षेण नतेनं कारिता, विस्फारितेत्यर्थः । का ? भारती वाणी । केन ? भवभूतिना कविना । केषु ? नाटकेषु वीरचरित्रोत्तररामचरित्रादिषु । कथम्भूता ? स्पष्टभावरसा व्यक्तशोकादिभाव शृङ्गारादिरसा । कैः प्रनर्तिता ? पदन्यासैः सुबन्ततिङन्तपदरचनाभिः । किम्भूतैः ? चित्रैः नानारूपैः समासादिभेदेन । ha ? नटस्त्रीव भरतभार्येव, यथा नटी नटेन प्रनत्र्त्यते । कैः ? पदन्यासैः पादनिक्षेपैः । कीदृशैः ? चित्रैः जनाश्चर्यकारिभिः, अनेकप्रकारैर्वा । कीदृशी ? स्पष्टभावरसा स्पष्टभावाः - व्यक्त स्वरूपाः, रसाः - शृङ्गारादयो यस्याः सा तथोक्ता, भावरसा च अभिप्रायाग्रहो नर्तने यस्याः सा तथोक्ता, यद्वा पूर्ववद् व्याख्या ॥ ३० ॥
आतपानि
दपि संचार इत्यर्थः, नोत्सहन्ते, प्रत्युक्त शीतसङ्कुचिताङ्गा निलीय क्वचिदवतिष्ठन्ते, किन्तु रवेः सूर्यस्य, भाः प्रभाः, त्यर्थः, स्मरन्ति ध्यायन्ति, शीतापनयनाय प्रतीक्षन्त इत्यर्थः ।
अत्रापि श्लेषानुप्राणितोपमालङ्कारः ॥ “उत्साहोऽध्यवसायः स्यात्" इत्यमरः, “उत्साह स्तूयमे सूत्रे" इति शब्दार्णवः ॥२८॥ परागाभिधा विवृतिः- - अथ समरादित्य संज्ञक प्रशमरस निधानकथानक प्रशंसामुखेन तत्प्रणेतारं सृरिनेतारं श्रीहरिभद्रसूरिमुपश्लोकयति-निरोद्धुमिति । 'समरादित्यजन्मनः प्रशमस्य वशीभूतम् [ अत एव ] समरादि त्यजत्, मनः, निरोद्धुं केन पाते' ?, इत्यन्वयः । समरादित्यजन्मनः समरादित्यात्- तन्नाम्नः कथानकात्, जन्म- अभिव्यक्तिर्यस्य तस्य, प्रशमस्य प्रपचोपरमस्य, वशीभूतं वशं गतम्, तत्कथानकश्रवण समनन्तरोन्मील दुपशमर साखादानन्दलहरीनिमग्नमिति समुदितार्थः । अत एव समरादि सङ्ग्रामादिकम्, अत्रत्यमादिपदं मृगया- द्यूतादिसङ्ग्राहकम् त्यजत् विजिगीषादिविरहाद् वर्जयत्, मनः निरुक्तकथानकश्रोतॄणां हृदयम् । निरोद्धुं निरुक्तरसाखादाद् व्यावर्तयितुम् । केन बलीयसाऽपि पुंसा, पार्यते शक्यते, न केनापीत्यर्थः, 'क ईप्सितार्थस्थिरनिश्चयं मनः पयश्च निम्नाभिमुखं प्रतीपयेत्' इति न्यायात् ।
अत्र शब्दस्वरूपामेदेऽर्थं तात्पर्य भेदालाढा नुप्रासालङ्कार- श्लेषालङ्कारयोरेकाश्रयानुप्रवेशात् सङ्करः । “अस्त्रियां समराऽनीक-रणाः कलह-विग्रहौ” इत्यमरः ॥ २९ ॥
wwwww
परागाभिधा विवृतिः:- अथ भवभूतिकविविभूतिमुपवर्णयति-- स्पष्टभाव-रसेति । 'भवभूतिना चित्रैः पदभ्यासैः नाटकेषु प्रनर्तिता [ सती ] भारती नटस्त्रीव स्पष्टभावरसा [ स्फुरति ], इत्यन्वयः । भवभूतिना तन्नामप्रसिद्ध कविना | चित्रैः गुणा-ऽलङ्कार्-रीतिविचित्रैः । पदन्यासैः पदानाम् विभक्त्यन्तशब्दानाम्, न्यासैः - रचनाभिः । नाटकेषु उत्तररामचरितादिषु ख्यातवृत्तकदृश्यकाव्येषु तद्रूपरङ्गमध्य इत्यर्थः । प्रनर्तिता प्रकर्षेण नर्तिता - स्वार्थाभिनयं कारितेव सतीति प्रतीयमानोत्प्रेक्षा । स्पष्टभावरसा स्पष्टः - अभिव्यक्तः, भावः - अभिप्रायः, यद्वा विभावादिभिरपरि पुष्यमाणतया रसरूपतामप्राप्तो रत्यादिः स्थायिभावः, देवादिविषया रतिर्वा, रसश्च शृङ्गारादिर्यया तादृशी स्फुरति । केत्र ? नटस्त्रीय नटीव, सा यथा भवभूतिना भवत्यस्मादिति भवः शिवः, तस्येव भूतिः - ऐश्वर्यं नटनोत्कटपाटवरूपं यस्य तेन, नृत्यकलाकुशलेन नटेनेत्यर्थः, चित्रैः दर्शकजनाश्चर्यकरैः, तस्कलाकुशलमात्रप्रत्येयविचित्रविधैर्वा, पदन्यासैः चरणविक्षेपैः, नाटकेषु अभिनयकर्मसु प्रनर्तिताः प्रकृष्टरीत्या नर्तनं कारिता सती, स्पष्टभावरसा स्पष्टः- अभिनयेनाभिव्यक्तः, भावः- पदवाक्याभिप्रायः, भ्रूविक्षेपादिरूपो व्यभिचारिभावो वा रसः शृङ्गारादिश्च यया तादृशी स्फुरति, तथा ।